________________ 206 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् लघुनि धात्वक्षरे परे सनीव कार्यं स्यात्' / अचीकरत्, अजीजवत्, अशिश्रवत् / लघुनीति किम् ? अततक्षत् / णावित्येव- अचकंमत / असमानलोप इति किम् ? अचकथत् // 63 // . लघोर्दीर्घोऽस्वरादेः / 4 / 1 / 64 // अस्वरादेरसमानलोपे ऊपरे णौ द्वित्वे 'पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घः' स्यात् / अचीकरत् / लघोरिति किम् ? अचिक्वणत् / अस्वरादेरिति किम् ? औणुनवत् // 64 // स्मृ-दृ-त्वर-प्रथ-प्रद-स्तृ-स्पशेरः / 4 / 1 / 65 // एषामसमानलोपे उपरे णौ द्वित्वे 'पूर्वस्याऽत्' स्यात् / असस्मरत्, अददरत्, अतत्वरत्, अपप्रथत्, अमम्रदत्, अतस्तरत्, अपस्पशत् // 65 // वा वेष्ट-चेष्टः / 4 / 1 / 66 // अनयोरसमानलोपे उपरे णौ द्वित्वे 'पूर्वस्याऽद् वा' स्यात् / अववेष्टत्, अविवेष्टत्; अचचेष्टत्, अचिचेष्टत् // 66 // .ई च गणः / 4 / 1 / 67 // 'गणेङपरे णौ द्वित्वे पूर्वस्य ईः, अश्च' स्यात् / अजीगणत्, अजगणत् // ' अस्याऽऽदेराः परोक्षायाम् / 4 / 1 / 68 // अस्यां द्वित्वे 'पूर्वस्याऽऽदेरत आः' स्यात् / आदुः, आरतुः / अस्येति किम् ? ईयुः / आदेरिति किम् ? पपाच // 68 // अनातो नश्चान्त ऋदायशौ-संयोगस्य / 4 / 1 / 69 // ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे 'पूर्वस्याऽऽदेरात्स्थानादन्यस्याऽस्य आः स्यात्, कृताऽऽतो नोऽन्तश्च' / आनृधुः, आनशे, आनन / ऋदादीति किम् ? आर / अनात इति किम् ? आञ्छ // 69 //