________________ 204 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् / ध्वस्यते, बनीभ्रश्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कद्यते // 50 // मुरतोऽनुनासिकस्य / 4 / 1151 // . . आत् परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्वित्वे 'पूर्वस्य मुरन्तः' स्यात् / बम्भण्यते / अत इति किम् ? तेतिम्यते / अनुनासिकस्येति किम् ? पापच्यते // 51 // . जप-जभ-दह-दश-भञ्ज-पशः / 4 / 1152 // . एषां यङन्तानां द्वित्वे 'पूर्वस्य मुरन्तः' स्यात् / जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते // 52 // चर-फलाम् // 41 // 53 // एषां यङन्तानां द्वित्वे 'पूर्वस्य मुरन्तः' स्यात् / चञ्चूर्यते, पम्फुल्यते // 53 // ति चोपान्त्याऽतोऽनोदुः / 4 / 154 // यङन्तानां चर-फलां तादौ च प्रत्यये 'उपान्त्यस्याऽत उः स्यात्, न च तस्यौत्' / चञ्चूर्यते, पम्फुल्यते, चूर्तिः, प्रफुल्लिः / अत इति किम् ? चञ्चार्यते, पम्फाल्यते / अनोदिति किम् ? चंचूर्ति, पम्फुल्ति // 54 / / ऋमतां रीः / 4 / 1155 // ऋमतां यङन्तानां द्वित्वे 'पूर्वस्य रीरन्तः' स्यात् / नरीनृत्यते // 55 // रि-रौ च लुपि / 4 / 156 // ऋमतां यङो लुपि द्वित्वे 'पूर्वस्य रि-रौ रीश्चान्तः' स्यात् / चरिकर्ति, चर्कर्ति, चरीकर्ति // 56 // निजां शित्येत् / 4 / 1 / 57 // निजि-विजि-विषां शिति द्वित्वे 'पूर्वस्यैत्' स्यात् / नेनेक्ति, वेवेक्ति, वेवेष्टि / शितीति किम् ? निनेज // 57 //