________________ 194 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // एकधातौ कर्मक्रिययैकाऽकर्मक्रिये / 3 / 4 / 86 // एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका - अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य, तस्मिन् कर्तरि कर्मकर्तृरूपे 'धातोर्जिक्यात्मनेपदानि' स्युः / अकारि क्रियते करिष्यते वा कटः स्वयमेव / एकधाताविति किम् ? पचत्योदनं चैत्रः, सिध्यत्योदनः स्वयमेव / कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति / एकक्रिय इति किम् ? नवत्युदकं कुण्डिका, स्रवत्युदकं कुण्डिकायाः / अकमक्रिय इति किम् ? भिद्यमानः कुशूल: पात्राणि भिनत्ति // पचि-दुहेः / 3 / 4 / 87 // एकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया सकर्मिकया वा, एकक्रिये कर्तरि कर्मकर्तृरूपे, आभ्याम् 'जिक्यात्मनेपदानि' स्युः / अपाचि पच्यते पक्ष्यते वा ओदनः स्वयमेव, अदोहि दुग्धे धोक्ष्यते वा गौः स्वयमेव, उदुम्बरः फलं पच्यते अपक्त वा स्वयमेव, दुग्धे अदुग्ध वा पयो धोक्ष्यते गौः स्वयमेव // 87 // . न कर्मणा जिन् / 3 / 488 // पचि-दुहिभ्यां कर्मणा योगे अनन्तरोक्ते कर्तरि 'जिच् न' स्यात् / अपक्तोदुम्बरः फलं स्वयमेव, अदुग्ध गौः पयः स्वयमेव / कर्मणेति किम् ? अपाच्योदनः स्वयमेव / अनन्तरोक्ते कर्तरीत्येव- अपाचि उदुम्बरः फलं वायुना // 8 // रुधः / 3 / 4 / 89 // रुधोऽनन्तरोक्ते कर्तरि 'जिच् न' स्यात् / अरुद्ध गौः स्वयमेव // 89 // स्वर-दुहो वा / 3 / 4 / 90 //