________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 195 स्वरान्ताद् दुहेश्चानन्तरोक्ते कर्तरि 'जिच् वा' स्यात् / अकृत अकारि वा कटः स्वयमेव; अदुग्ध अदोहि वा गौः स्वयमेव // 10 // तपः कर्चनुतापे च / 3 / 4 / 91 // तपेः कर्मकर्तरि कर्तर्यनुतापे चार्थे 'जिच् न' स्यात् / अन्ववातप्त कितवः स्वयमेव, अतप्त तपांसि साधुः, अन्वतप्त चैत्रेण, अन्ववातप्त पापः स्वकर्मणा / कर्चनुतापे चेति किम् ? अतापि पृथिवी राज्ञा // 91 // णि-स्नुश्यात्मनेपदाऽकर्मकात् / 3 / 4 / 92 // ण्यन्तात् स्नुश्रिभ्यामात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि 'जिच् न' स्यात् / अपीपचदोदनं चैत्रेण मैत्रः, अपीपचतौदनः स्वयमेव; प्रास्नोष्ट गौः स्वयमेव; उदशिश्रियत दण्डः स्वयमेव; व्यकृत सैन्धवः स्वयमेव // 12 // भूषार्थ-सन्-किरादिभ्यश्च जि-क्यौ / 3 / 4 / 93 // भूषार्थेभ्यः, सन्नन्तेभ्यः, किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि ‘जिक्यौ न' स्याताम् / अलमकृत कन्या स्वयमेव, अलंकुरुते कन्या स्वयमेव; सन्अचिकीर्षिष्ट, चिकीर्षते वा कटः ‘स्वयमेव; किरादिः - अकीर्ट, किरते वा पांसुः स्वयमेव, अगीट गिरते वा ग्रासः स्वयमेव; णि - कारयते कटः स्वयमेव, चोरयते गौः स्वयमेव; प्रस्नुते गौः स्वयमेव; श्रि - उच्छ्रयते दण्डः स्वयमेव; आत्मनेपदाकर्मकात् - विकुर्वते सैन्धवाः स्वयमेव // 93 / / करणक्रियया क्वचित् / 3 / 4 / 94 // एकधाती पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्तरि 'ञिक्यात्मनेपदानि स्युः क्वचित् / परिवारयन्ते कण्टका वृक्षं स्वयमेव / क्वचिदिति किम् ? साध्वसिश्छिनत्ति // 94 //