________________ .. श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 193 स्तम्नाति, स्तभ्नोति, स्तुभ्नाति, स्तुभ्नोति; स्कभ्नाति, स्कभ्नोति; स्कुभ्नाति, स्कुम्नोति; स्कुनाति, स्कुनोति // 78 / / ज़्यादेः / 3 / 479 // त्र्यादेः कर्तृविहिते शिति 'श्ना' स्यात् / क्रीणाति, प्रीणाति // 79 // व्यञ्जनाच्छ्नाहेरानः / 3 / 4 / 80 // व्यञ्जनात् परस्य श्नायुक्तस्य हेः 'आनः' स्यात् / पुषाण, मुषाण / व्यञ्जनादिति किम् ? लुनीहि / / 8 / / तुदादेः शः / 3 / 4 / 81 // एभ्यः कर्तृविहिते शिति 'शः' स्यात् / तुदति, तुदते // 81 // - रुधां स्वराश्नो , नलुक् च / 3 / 4 / 82 // रुधादीनां स्वरात् परः कर्तृविहिते शिति. 'श्नः स्यात्, तद्योगे प्रकृतेर्नो लुक् च यथासम्भवम्' / रुणद्धि, हिनस्ति // 82 // कृग-तनादेरुः / 3 / 4 / 83 // कृगस्तनादिभ्यश्च कर्तृविहिते शिति 'उः' स्यात् / करोति, तनोति // 83 // सृजः श्राद्धे जि-क्या-ऽऽत्मने तथा / 3 / 4 / 84 // सृजः पराणि श्रद्धावति कर्तरि “जि-क्या-ऽऽत्मनेपदानि स्युस्तथा यथा पूर्व विहितानि' / असर्जि, सृज्यते, म्रक्ष्यते वा मालां धार्मिकः / श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् // 84 // तपेस्तपःकर्मकात् / 3 / 4 / 85 // तपेस्तपःकर्मक़ात् कर्तरि ‘जिक्यात्मनेपदानि स्युस्तथा' / तप्यते तेपे वा तपः साधुः / तप इति किम् ? उत्तपति स्वर्णं स्वर्णकारः / कर्मेति किम् ? तपः साधु तपति // 85 //