________________ - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 191 पद्यतेः कर्तर्यघतन्यास्ते परे 'जिच् स्याद्, निमित्ततस्य च लुक्' / उदपादि / त इति किम् ? उदपत्साताम् // 66 // दीप-जन-बुधि-पूरि-ताय-प्यायो वा / 3 / 4 / 67 // एभ्यः कर्तर्यधतन्यास्ते परे 'जिच् वा स्यात्, तलुक् च' / अदीपि, अदीपिष्ट; अजनि, अजनिष्ट; अबोधि, अबुद्ध; अपूरि, अपूरिष्ट; अतायि, अतायिष्ट; अप्यायि, अप्यायिष्ट // 67 // - भाव-कर्मणोः / / 468 // सर्वस्माद् धातोर्भाव-कर्मविहितेऽधतन्यास्ते 'जिच् स्यात्, तलुक् च' / आसि त्वया, अकारि कटः // 6 // स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशी:-श्वस्तन्यां जिट् वा 3 / 4 / 69 // स्वरान्ताद् ग्रहादेश्च विहितासु भावकर्मजासु स्य-सिजाशी:- श्वस्तनीषु 'जिट वा' स्यात् / दायिष्यते, दास्यते; अदायिषाताम्, अदिषाताम्; दायिषीष्ट, दासीट; दायिता, दाता / ग्राहिष्यते, ग्रहीष्यते; अग्राहिषाताम्, अग्रहीषाताम्; ग्राहिषीट; ग्रहीषीष्ट; ग्राहिता, ग्रहीता / दर्शिष्यते, द्रक्ष्यते; अदर्शिषाताम्, अवृक्षाताम्, दर्शिषीष्ट, दृक्षीष्ट; दर्शिता, द्रष्टा / घानिष्यते, हनिष्यते; अघानिषाताम्, अवधिषाताम्: घानिषीष्ट, वधिषीष्ट; घानिता, हन्ता // 19 // क्यः शिति / 31470 // .. 'सर्वस्माद् धातोर्भाव-कर्मविहिते शिति क्यः' स्यात् / शय्यते त्वया, क्रियते कटः / शितीति किम् ? बभूवे // 70 // कर्तर्यनद्भ्यः शव / 3 / 471 // अदादिवर्जाद् धातोः कर्तरि विहिते शिति 'शव' स्यात् / भवति / कर्तरीति