________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 189 सिजद्यतन्याम् / 3 / 4 // 53 // अद्यतन्यां परस्यां धातोः परः 'सिच् नित्यम्' स्यात् / अनैषीत् // 53 // स्पृश-मृश-कृष-तृप-दृपो वा / 3 / 4 / 54 // एभ्योऽद्यतन्याम् 'सिज् वा' स्यात् / अस्पाक्षीत्, अस्पार्षीत्, अस्पृक्षत्; अम्राक्षीत्, अमाीत्, अमृक्षत्; अक्राक्षीत्, अकार्षीत्, अकृक्षत्; अत्राप्सीत्, अतार्सीत्, अतृपत्; अद्राप्सीत्, अदासत्, अदृपत् // 54 // ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् / 3 / 4 / 55 // हशिडन्तानाम्युपान्त्याददृशोऽनिटोऽद्यतन्याम् ‘सक्' स्यात् / अधुक्षत्, अविक्षत् / ह-शिट इति किम् ? अभैत्सीत् / नाम्युपान्त्यादिति किम् ? अधाक्षीत् / अदृश इति किम् ? अद्राक्षीत् / अनिट इति किम् ? अकोषीत् // 55 // श्लिषः / 3 / 456 // श्लिषोऽनिटोऽद्यतन्याम् ‘सक्' स्यात् / आश्लिक्षत् कन्यां मैत्रः / अनिट इत्येव-अश्लेषीत् // 56 // नाऽसत्त्वाऽऽश्लेषे / 3 / 457 // श्लिषोऽप्राण्याश्लेषार्थात् ‘सक् न' स्यात् / उपाश्लिषत् जतु च काष्ठं च / असत्त्वाऽऽश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि // 57 // णि-श्रि-द्रु-सु-कमः कर्तरि ऊः / 3 / 458 // . ण्यन्तात् श्यादिभ्यश्च कर्तर्यद्यतन्याम् 'दु:' स्यात् / अचीकरत्, अशिश्रियत्, अदुद्रुवत्, असुनुवत्, अचकमत / कर्तरीति किम् ? अकारयिषातां कटी मैत्रेण // 5 // धे-श्वेर्वा / 3 / 459 // आभ्यां कर्तर्यद्यतन्याम् 'डो वा' स्यात् / अदधत्, अधात्; अशिश्वियत्,