________________ 188 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // एभ्यो धातुभ्यः परस्याः 'परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते' / दयाञ्चक्रे, दयाम्बभूव, दयामास; पलायाचक्रे, आसाञ्चक्रे, कासाञ्चक्रे // 47 // गुरुनाम्यादेरनृच्छूर्णोः / 3 / 4 / 48 // गुरु म्यादिर्यस्य तस्माद्धातोः, ऋच्छृणुवर्जात् परस्याः ‘परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते' / ईहाञ्चक्रे, ईहाम्बभूव, ईहामास / गुर्विति किम् ? इयेष / नामीति किम् ? आनर्च / आदीति किम् ? निनाय / अनृच्छूोरिति किम् ? आनछु, प्रोणुनाव // 48 // जाग्रुष-समिन्धेर्नवा / 3 / 4 / 49 // एभ्यो धातुभ्यः परस्याः ‘परोक्षाया आम् वा स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते' / जागराञ्चकार, जागराम्बभूव, जागरामास, जजागार; ओषाञ्चकार; उवोष; समिन्धाञ्चक्रे, समीथे // 49 // भी-ही-भृ-होस्तिव्वत् / 3 / 4 / 50 // एभ्यः परस्याः 'परोक्षाया आम् वा स्यात, स च तिव्वत, आमन्ताच्च पो कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते' / बिभयाञ्चकार, बिभयाम्बभूव, बिभयामास, बिभाय; जियाञ्चकार, जिहाय, बिभराञ्चकार, बभार; जुहवाञ्चकार, जुहाव // 50 // वेत्तेः कित् / 3 / 4 / 51 // वेत्तेः परस्याः ‘परोक्षाया आम् किद् वा स्यात्, आमन्ताच्च कृभ्वस्त परोक्षान्ता अनु प्रयुज्यन्ते' / विदाञ्चकार, विवेद // 51 // पञ्चम्याः कृग् / 3 / 452 // वेत्तेः परस्याः ‘पञ्चम्याः किदाम् वा स्यात्, आमन्ताच्च परः पञ्चम्यन्तः कृर प्रयुज्यते' / विदाङ्करोतु, वेत्तु // 52 //