________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 187 अस्मात् कर्मणः परिधानेऽर्जने चार्थे 'णिङ् वा' स्यात् / परिचीवरयते, संचीवरयते, (चीवरयते) // 41 // णिज्बहुलं नाम्नः कृगादिषु / 3 / 4 / 42 // कृगादीनां धातूनामर्थे 'नाम्नो णिच् बहुलम्' स्यात् / मुण्डं करोति= मुण्डयति च्छात्रम्, पटुमाचष्टे-पटयति, वृक्षं रोपयति=वृक्षयति, कृतं गृह्णाति=कृतयति // 42 // व्रताद् भुजि-तनिवृत्त्योः / 3 / 4 / 43 // व्रतम् शास्त्रविहितो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यर्थाच्च कृगादिष्वर्थेषु 'णिज्बहुलम्' स्यात् / पयो व्रतयति, सावद्याऽनं व्रतयति // 43 // सत्या-ऽर्थ-वेदस्याः / 3 / 4 / 44 // 'एषां णिच्सन्नियोगे आः' स्यात् / सत्यापयति, अर्थापयति, वेदापयति // श्वेताश्वा-ऽश्वतर-गालोडिता-ऽऽह्वरकस्याऽश्व-तरेत-कलुक् 3 / 4 / 45 // 'एषां णिज्योगे यथासंख्यमश्वादेः शब्दस्य लुक्' स्यात् / श्वेतयति, अश्वयति, गालोडयति, आह्वरयति // 45 // ___ धातोरनेकस्वरादाम् परोक्षायाः, कृभ्वस्ति चानुतदन्तम् 3 / 4 / 46 // अनेकस्वराद्धातोः परस्याः ‘परोक्षायाः स्थाने आम् स्यात्, आमन्ताच्च परे कृम्वस्तयः परोक्षान्ता अनु - पश्चादनन्तरं प्रयुज्यन्ते' / चकासाञ्चकार, चकासाम्बभूव, चकासामासः / अनेकस्वरादिति किम् ? पपाच / अनुविपर्यासव्यवहितिनिवृत्त्यर्थः, तेन चकारचकासाम्, ईहांचैत्रश्चक्रे इत्यादि न स्यात् // 46 // . दया-ऽया-ऽऽस-कासः / 3 / 4 / 47 //