________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 185 सो वा लुक् च / 3 / 4 / 27 // सन्तात् कर्तरुपमानादाचारेऽर्थे 'क्यङ् वा स्यादन्तस्य च सो वा लुक्' / पयायते, पयस्यते // 27 // ओजोऽप्सरसः / 3 / 4 / 28 // आभ्यां कर्तुरुपमानाभ्यामाचारे 'क्यङ् वा स्यात्, सश्च लुक्' / ओजायते, अप्सरायते // 28 // व्यर्थे भृशादेः स्तोः / 3 / 4 / 29 // भृशादेः कर्तृश्च्व्य र्थे 'क्यङ् वा स्यात्, यथासम्भवं स्तोर्लुक् च' / भृशायते, उन्मनायते, वेहायते / कर्तुरित्येव- अभृशम्भृशं करोति / च्व्यर्थ इति किम् ? भृशो भवति // 29 // डाच्-लोहितादिभ्यः षित् // 3 // 4 // 30 // डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्व्यर्थे 'क्यङ् षित्' स्यात् / पटपटायति, पटपटायते; लोहितायति, लोहितायते / कर्तुरित्येव- अपटपटा पटपटा करोति / व्यर्थ इत्येव-लोहितो भवति // 30 // कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे / 3 / 4 // 31 // एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे 'क्यङ् स्यात् / कष्टायते, कक्षायते, कृच्छ्रायते, सत्रायते, गहनायते / चतुर्थीति किम् ? रिपुः कष्टं कामति / पाप इति किम् ? कष्टाय तपसे क्रामति // 31 // रोमन्थाद् व्याप्यादुचर्वणे / 3 / 4 / 32 // अभ्यवहृतं द्रव्यम्=रोमन्थः, उद्गीर्य चर्वणम् उच्चर्वणम्, अस्मिन्नर्थे रोमन्थात् कर्मणः 'क्यङ् वा' स्यात् / रोमन्थायते गौः / उच्चर्वण इति किम् ? कीटो रोमन्यं वर्तयति // 32 //