________________ * श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 183 'गर्थेिभ्य एव एभ्यो यंङ्' स्यात् / निजेगिल्यते, लोलुप्यते, सासद्यते, चञ्चूर्यते, जञप्यते, जञ्जभ्यते, दन्दश्यते, दन्दह्यते / गर्दा इति किम् ? साधु जपति, भृशं निगिरति // 12 // न गृणा-शुभ-रुचः / 3 / 4 / 13 // 'एभ्यो यङ् न' स्यात् / निन्द्यं गृणाति, भृशं शोभते, भृशं रोचते // 13 // __ . बहुलं लुप् / 3 / 4 / 14 // 'यङो लुप् बहुलम्' स्यात् / बोभूयते, बोभवीति / बहुलवचनात् क्वचिन्न भवति -लोलूया, पोपूया // 14 // अचि / 3 / 4 / 15 // 'योऽचि परे लुप्' स्यात् / चेच्यः, नेन्यः // 15 // नोतः / 3 / 4 / 16 // 'उदन्ताद् विहितस्य यङोऽचि परे लुब् न' स्यात् / रोख्यः // 16 // चुरादिभ्यो णिच् / 3 / 4 / 17 // एभ्यो धातुभ्यः 'स्वार्थे णिच्' स्यात् / चोरयति.। पदयते // 17 // युजादेर्नवा / 3 / 418 // एभ्यः ‘स्वार्थे णिच् वा' स्यात् / योजयति, योजति / साहयति, सहति // 18 // भूङः प्राप्तौ णिङ् / 3 / 4 / 19 // 'भुवः प्राप्त्यर्थाण्णिङ् वा' स्यात् / भावयते, भवते / प्राप्ताविति किम् ? भवति // 19 // ' प्रयोक्तव्यापारे णिग् / 3 / 4 / 20 // कुर्वन्तं. यः प्रयुङ्क्ते तद्व्यापारे वाच्ये 'धातोर्णिग् वा' स्यात् / कारयति, भिक्षा वासयति, राजानमागमयति, कंसं घातयति, पुष्येण चन्द्रं योजयति, उज्जयिन्याः