________________ 182 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // शान्-दान्-मान्-बधानिशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः 3 // 47 // . एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे 'सन् स्यात्, दीर्घश्चैषां द्वित्वे पूर्वस्येतः' / शीशांसति, दीदांसति, मीमांसते, बीभत्सते / अर्थोक्तिः किम् ? अर्थान्तरे मा भूत् - निशानम्, अवदानम्, मानयति, बाधयति // 7 // धातोः कण्ड्वादेर्यक् // 3 // 48 // .. एभ्यो धातुभ्यः स्वार्थे ‘यक् स्यात् / कण्डूयति, कण्डूयते, महीयते / धातोरिति किम् ? कण्डूः // 8 // ___व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा / 3 / 4 / 9 // गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्केदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम्, तद्विशिष्टार्थवृत्तेर्धातोर्व्यञ्जनादेरेकस्वराद् ‘यङ् वा' स्यात् / पापच्यते / व्यञ्जनादेरिति किम् ? भृशमीक्षते / एकस्वरादिति किम् ? भृशं चकास्ति / वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् // 9 // ____ अट्यति-सूत्रि-मूत्रि-सूच्यशूर्णोः / 3 / 4 / 10 // एभ्यो भृशाऽऽभीक्ष्ण्यार्थवृत्तिभ्यो ‘यङ् स्यात् / अटाट्यते, अरार्यते, सोसूत्र्यते, मोमूत्र्यते, सोसूच्यते, अशाश्यते, प्रोर्णोनूयते // 10 // गत्यर्थात् कुटिले / 3 / 4 / 11 // व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्तमानाद् धातो-र्यङ्' स्यात् / चक्रम्यते / कुटिल इति किम् ? भृशं क्रामति ! // 11 // गृ-लुप-सद-चर-जप-जभ-दश-दहो गर्यो / 3 / 4 / 12 //