________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 175 विभयाञ्चकार / कृग इति किम् ? ईक्षामास / / 75 / / गन्धना-ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे / 3 / 376 // एतदर्थात् कृगः ‘कर्तर्यात्मनेपदम्' स्यात् / गन्धनम्- द्रोहेण परदोषोद्घाटनम्, उत्कुरुते / अवक्षेपः- कुत्सनम्, दुर्वृत्तानवकुरुते / सेवा - महामात्रानुपकुरुते / साहसम्- अविमृश्य प्रवृत्तिः, परदारान् प्रकुरुते / प्रतियलः- गुणान्तराऽऽधानम्, एधोदकस्योपस्कुरुते / प्रकथनम्- जनवादान् प्रकुरुते / उपयोगः- धर्मादौ विनियोगः, शतं प्रकुरुते // 76 / / अधेः प्रसहने / 3 / 3 / 77 // अधेः परात् कृगः प्रसहनार्थात् 'कर्तर्यात्मनेपदम्' स्यात् / प्रसहनम्पराभिभवः परेणापराजयो वा, तं हाऽधिचक्रे / प्रसहन इति किम् ? तमधिकरोति // 77 // दीप्ति-ज्ञान-यत्न-विमत्युपसंभाषोपमन्त्रणे वदः / 3 / 3 / 78 // एष्वर्थेषु गम्येषु वदः 'कर्तर्यात्मनेपदम्' स्यात् / दीप्तिः- भासनम्, वदते विद्वान् स्याद्वादे / ज्ञाने - वदते. धीमांस्तत्त्वार्थे / यले - तपसि वदते / नानामतिर्विमतिः- धर्मे विवदन्ते / उपसंभाषा- उपसान्त्वनम्, कर्मकरानुपवदते / उपमन्त्रणम्- रहस्युपच्छन्दनम्, कुलभार्यामुपवदते // 78 // व्यक्तवाचां सहोक्तौ / 3 / 379 // व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोचारणार्थाद् वदः ‘कर्तर्यात्मनेपदम्' स्यात् / संप्रवदन्ते ग्राम्याः / व्यक्तवाचामिति किम् ? संप्रवदन्ति शुकाः / सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति // 79 // _ विवादे वा / 3 / 3 / 80 // विरुद्धार्थो वादो विवादः, व्यक्तवाचां विवादरूपसहोक्त्यर्थाद् वदः ‘कर्त्तत्मिनेपदं वा' स्यात् / विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः / विवाद इति