________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 167 इङितः कर्तरि / 3 / 3 / 22 // 'इदितो ङितश्च धातोः कर्तर्यात्मनेपदम्' स्यात् / एधते, एधमानः, शेते, शयानः // 22 // क्रियाव्यतिहारेऽगति-हिंसा-शब्दार्थ-हसो हृ-वहश्चा _ ऽनन्योऽन्यार्थे / 3 / 3 / 23 // अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणम्-क्रियाव्यतिहारः, तदर्थाद् गति-हिंसा-शब्दार्थहस्वर्जाद् धातोर्ह-वहिभ्यां च ‘कर्तर्यात्मनेपदम्' स्यात्, न त्वन्योऽन्येतरेतर-परस्परशब्दयोगे / व्यतिलुनते, व्यतिहरन्ते, व्यतिवहन्ते भारम् / क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् - चैत्रस्य धान्यं व्यतिलुनन्ति / गत्यर्थादिवर्जनं किम् ? व्यतिसर्पन्ति, व्यतिहिंसन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति / अनन्योऽन्यार्थ इति किम् ? परस्परस्य व्य- तिलुनन्ति / कर्तरीत्येव - तेन भावकर्मणोः पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात् - व्यतिगम्यन्ते ग्रामाः // 23 // निविशः / 3 / 3 / 24 // नेर्विशः 'कर्तर्यात्मनेपदम्' स्यात् / निविशते // 24 // . उपसर्गादस्योहो वा / 3 / 3 / 25 // उपसर्गात् पराभ्यामस्यत्यूहिभ्याम् 'कर्तर्यात्मनेपदं वा' स्यात् / विपर्यस्यते, विपर्यस्यति; समूहते, समूहति // 25 // उत्-स्वराद् युजेरयज्ञतत्पात्रे / 3 / 3 / 26 // उदः स्वरान्ताच्चोपसर्गात् पराद् युनक्तेः ‘कर्तर्यात्मनेपदम्' स्यात्, न चेद् यज्ञे यत्तत्पात्रं तद्विषयो युज्यर्थः स्यात् / उद्युङ्क्ते, उपयुङ्क्ते / उत्स्वरादिति किम् ? संयुनक्ति / अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति //