________________ 166 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // पचध्वे / अहं पचामि, आवां पचावः, वयं पचामः / , पचे, पचावहे, पचामहे / एवं सर्वासु / द्वययोगे त्रययोगे च पराश्रयमेव वचनम् / स च त्वं च पचथः, स च त्वं च अहं च पचामः // 17 // एक-द्वि-बहुषु / 3 / 3 / 18 // 'अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येक-द्वि-बहुष्वर्थेषु स्युः' / स पचति, तौ पचतः, ते पचन्तीत्यादि / / 18 / / नवाऽऽद्यानि शतृ-क्वसू च परस्मैपदम् // 3 // 3 // 19 // 'सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृ-क्वसू च परस्मैपदानि स्युः' / तिव्, तस्, अन्ति; सिव्, थस्, थ; मि, वस्, मस् / एवं सर्वासु // 19 // पराणि काना-ऽऽनशौ चाऽऽत्मनेपदम् / 3 / 3 / 20 // 'सर्वविभक्तीनां पराणि नव नव वचनानि कानानशी चाऽऽत्मनेपदानि स्युः' / ते, आते, अन्ते; से, आथे, ध्वे; ए, वहे, महे / एवं सर्वासु // 20 // तत् साप्याऽनाप्यात् कर्मभावे, कृत्य-क्तखलाश्च 3 // 3 // 21 // 'तद्- आत्मनेपदं कृत्य-क्त-खलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे स्युः' / क्रियते कटश्चैत्रेण / चक्राणः / क्रियमाणः / भूयते त्वया / भूयमानम् / क्रियते / मृदु पच्यते / कार्यः / कर्तव्यः / करणीयः / देयः / कृत्यः / कटस्त्वया / शयितव्यम् / शयनीयम् / शेयम् / कार्यम् / कर्तव्यम् / करणीयम् / देयम् / कृत्यम् / त्वया कृतः कटः / शयितम् / कृतं त्वया / सुकरः कटस्त्वया / सुशयम् / सुकरं त्वया / सुकटंकराणि वीरणानि / ईषदाढ्यम्भवं भवता / सुज्ञानं तत्त्वं मुनिना / सुग्लानं दीनेन / मास आस्यते / मासमास्यते // 21 // कलयमाणः / भूयतकाच भावे स्युः प्रत्ययाः सकर्मका