________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 165 क्यास्त, क्यासम् क्यास्व क्यास्म; सीष्ट सीयास्ताम् सीरन, सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि / 3 / 3 / 13 // इमानि वचनानि 'आशीः' स्युः // 13 // श्वस्तनी - ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस; ता तारौ तारस्, तासे तासाथे ताचे, ताहे तास्वहे तास्महे // 3 // 3 // 14 // इमानि वचनानि 'श्वस्तनी' स्युः // 14 // भविष्यन्ती - स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस; स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे / 3 / 3 / 15 // इमानि वचनानि “भविष्यन्ती' स्युः // 15 // क्रियातिपत्तिः- स्यत् स्यताम् . स्यन, स्यस् स्यतम् .. स्यत, स्यम् स्याव स्याम; स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि / 3 / 3 / 16 // इमानि वचनानि 'क्रियातिपत्तिः' स्युः // 16 // त्रीणि त्रीण्यन्ययुष्मदस्मदि / 3 / 3 / 17 // 'सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि, अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं स्युः / स पचति, तौ पचतः, ते पचन्ति / पचते, पचेते, पचन्ते / त्वं पचसि, युवां पचथः, यूयं पचथ / पचसे, पचेथे,