________________ 162 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // अन्यादृक्षः; त्यादृक्, त्यादृशः, त्यादृक्षः; अस्मादृक्, अस्मादृशः, अस्मादृक्षः॥ इदं-किमीत्-की / 3 / 2 / 153 // दृगादावुत्तरपदे ‘इदम्-किमी यथासङ्ख्यम् ईत्-कीरूपौ' स्याताम् / ईदृक्, ईदृशः, ईदृक्षः; कीदृक्, कीदृशः, कीदृक्षः // 153 // अनञः क्त्वो यप् / 3 / 2 / 154 // . नोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदं तदवयवस्य ‘क्त्वो यप्' स्यात् / प्रकृत्य / अनज इति किम् ? अकृत्वा, परमकृत्वा / उत्तरपदस्येत्येव- अलं कृत्वा ||154 // - पृषोदरादयः / 3 / 21155 // 'एते साधवः स्युः' / पृषोदरः, बलाहकः // 155 / / वाऽवाऽप्योस्तनि-क्री धाग-नहोर्व-पी / 3 / 2 / 156 // 'अवस्योपसर्गस्य तनिक्रियोरपेश्च धाग-नहोपरयोर्यथासंख्यं व-पी वा' स्याताम् / वतंसः, अवतंसः; वक्रयः, अवक्रयः; पिहितम्, अपिहितम्; पिनद्धम्, अपिनद्धम् // 156 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्ती तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः // 3 / 2 / / श्रीमद्-वल्लभराजस्य, प्रतापः कोऽपि दुःसहः / प्रसरन् वैरिभूपेषु दीर्घनीद्रामकल्पयत् // 10 // (तृतीयः पादः). (अथाऽऽख्यातप्रकरणम्)