________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 157 सत्या-ऽगदा-ऽस्तोः कारे / 3 / 2 / 112 // एभ्यः कारे उत्तरपदे ‘मोऽन्तः' स्यात् / सत्यङ्कारः अगदङ्कारः अस्तुङ्कारः // लोकम्पृण-मध्यन्दिना-ऽनभ्याशमित्यम् / 3 / 2 / 113 // एते 'कृतपूर्वपदमोऽन्ता निपात्यन्ते' / लोकम्पृणः, मध्यन्दिनम्, अनभ्याशमित्यः / / 113 // भ्राष्ट्रा-ऽग्नेरिन्धे / 3 / 2 / 114 // आभ्यामिन्धे उत्तरपदे ‘मोऽन्तः' स्यात् / भ्राष्ट्रमिन्धः, अग्निमिन्धः // 114 // अगिला गिल-गिलगिलयोः / 3 / 2 / 115 // गिलान्तवर्जात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे 'मोऽन्तः' स्यात् / तिमिङ्गिलः, तिमिङ्गिलगिलः / अगिलादिति किम् ? तिमिङ्गिलगिलः // 115 // भद्रोष्णात् करणे / 3 / 2 / 116 // आभ्यां परः करणे उत्तरपदे ‘मोऽन्तः' स्यात् / भद्रकरणम्, उष्णंकरणम् // नवाऽखित्कृदन्ते रात्रेः / 3 / 2 / 117 // खिद्वर्जे कृदन्ते उत्तरपदे परे ‘रात्रैर्मोऽन्तो वा' स्यात् / रात्रिञ्चरः, रात्रिचर / खिद्वर्जनं किम् ? रात्रिमन्यमहः / कृदन्त इति किम् ? रात्रिसुखम् / अन्तग्रहणं किम् ? रात्रयिता / / 117 / / धेनोभव्यायाम् / 3 / 2 / 118 // धेनोभव्यायामुत्तरपदे ‘मोऽन्तो वा' स्यात् / धेनुम्भव्या, धेनुभव्या // 118 // अषष्ठीतृतीयादन्याद् दोऽर्थे / 3 / 2 / 119 // अषष्ट्यन्तादतृतीयान्ताचाऽन्यादर्थे उत्तरपदे 'दोऽन्तो वा' स्यात् / अन्यदर्थः, अन्यार्थः / षष्ट्यादिवर्जनं किम् ? अन्यस्याऽन्येन वाऽर्थः= अन्यार्थः / / आशीराशा-ऽऽस्थिता-ऽऽस्थोत्सुकोति-रागे / 3 / 2 / 120 //