________________ 156 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // मन्थौदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहे वा 3/2/106 // एषूत्तरपदेषु 'उदकस्योदो वा' स्यात् / उदमन्थः, उदकमन्थः; उदौदनः, उदकौदनः; उदसक्तुः, उदकसक्तुः; उदबिन्दुः, उदकबिन्दुः; उदवज्रः, उदकवज्रः; उदभारः, उदकभारः; उदहारः; उदकहारः; उदवीवधः, उदकवीवधः; उदगाहः; उदकगाहः // 106 // नाम्न्युत्तरपदस्य च / 3 / 2 / 107 // 'उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः' स्यात् / उदमेघः, उदवाहः, उदपानम्, उदधिः, लवणोदः, कालोदः / / 107 // ते लुग्वा / 3 / 2 / 108 // 'संज्ञाविषये पूर्वोत्तरपदे लुग् वा' स्यात् / देवदत्तः, देवः, दत्तः // 108 / / ड्यन्तरनवर्णोपसर्गादप ईप् / 3 / 2 / 109 // 'व्यन्तामवर्णान्तव|पसर्गेभ्यश्च परस्याऽप उत्तरपदस्य ईप्' स्यात् / द्वीपम्, अन्तरीपम्, नीपम्, समीपम् / उपसर्गादिति किम् ? स्वापः / अनवर्णेति किम् ? प्रापम्, परापम् / / 109 // अनोदेशे उप् / 3 / 2 / 110 // 'अनोः परस्याऽपो देशेऽर्थे उप्' स्यात् / अनूपो देशः / देश इति किम् अन्वीपं वनम् // 110 // खित्यनव्ययाऽरुषो मोऽन्तो हस्वश्च / 3 / 2 / 111 // स्वरान्तस्यानव्ययस्यारुषश्च खिप्रत्ययान्ते उत्तरपदे 'मोऽन्तो यथासम्भव ह्रस्वादेशश्च' स्यात् / शंमन्यः, कालिंमन्या, अरुन्तुदः / खितीति किम् ? ज्ञमानी / अनव्ययस्येति किम् ? दोषामन्यमहः // 111 //