________________ 154 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // / 3 / 2 / 92 // . एषां यथासंख्यमेते प्राक् शतात् संख्यायामुत्तरपदे स्युः, न तु अशीतौ बहुव्रीहिविषये च / द्वादश, त्रयोविंशतिः, अष्टात्रिंशत् / प्राक्शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टस्रहसम् / अनशीतिबहुव्रीहाविति किम् ? यशीतिः, द्वित्राः // 92 // चत्वारिंशदादौ वा / 3 / 2 / 93 // द्वित्र्यष्टानां प्राक्शताच्चत्वारिंशदादावुत्तरपदे 'यथासंख्यं द्वा-त्रयोऽष्टा वा' स्युः, अनशीतिबहुव्रीहौ / द्वाचत्वारिंशत्, द्विचत्वारिंशत्; त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत्; अष्टाचत्वारिंशत्, अष्टचत्वारिंशत् // 93 // . हृदयस्य हलास-लेखा-ऽण्-ये / 3 / 2 / 94 // अस्य लास-लेखयोरुत्तरपदयोरणि ये च प्रत्यये 'हृत्' स्यात् / हृल्लासः, हृल्लेखः, हाईम्, हृद्यः // 94 // पदः पादस्या-ऽऽज्याति-गोपहते / 3 / 2 / 95 // 'पादस्याज्यादावुत्तरपदे पदः' स्यात् / पदाजिः, पदातिः, पदगः, पदोपहतः // हिम-हति-काषि-ये पद् / 3 / 2 / 96 // हिमादावुत्तरपदे ये च प्रत्यये ‘पादस्य पद्' स्यात् / पद्धिमम्, पद्धतिः, पत्काषी, पद्याः शर्कराः / / 96 // ऋचः शसि / 3 / 2 / 97 // 'ऋचां पादस्य शादौ शस्प्रत्यये पद्' स्यात् / पच्छो गायत्रीं शंसति / ऋच इति किम् ? पादशः श्लोकं वक्ति / द्विःशपाठात् स्यादिशसि न स्यात् - ऋचः पादान् पश्य // 17 // शब्द-निष्क-घोष-मिश्रे वा / 3 / 2 / 98 //