________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 147 - वर्चस्कादिष्ववस्करादयः / 3 / 2 / 48 // 'एष्वर्थेष्वेते कृतशषसाधुत्तरपदाः साधवः' स्युः / अवस्करोऽन्नमलम्, अवकरोऽन्यः; अपस्करो रथाङ्गम्, अपकरोऽन्यः // 48 // __परतः स्त्री पुम्वत् स्त्येकार्थेऽनूङ / 3 / 2 / 49 // परतः- विशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे 'पुम्वत्' स्यात्, न तूङन्तः / दर्शनीयभार्यः / परत इति किम् ? द्रोणीभार्यः / स्त्रीति किम् ? खलपुदृष्टिः / स्त्र्येकार्थ इति किम् ? गृहिणीनेत्रः, कल्याणीमाता / अनूङिति करभोलभावः / किम् ? गृहिणीने द्रोणीभार्यः पवत' स्यात्, न क्यङ्-मानि-पित्तद्धिते / 3 / 2 / 50 // क्यङि मानिनि चोत्तरपदे पित्तद्धिते च परतः स्त्रीलिङ्गोऽनूङ् ‘पुम्वत्' स्यात् / श्येतायते, दर्शनीयमानी अयमस्याः; अजथ्यं यूथम् // 50 // जातिश्च णि-तद्धितय-स्वरे / 3 / 2 / 51 // अन्या परतः स्त्री जातिश्च णौं प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते 'पुम्वत्' स्याद्, अनूङ् / पटयति, एत्यः, भावत्कम् / जाति - दारद्यः, गार्ग्यः / तद्धितेति किम् ? हस्तिनीयति, हस्तिन्यः // 51 // एयेऽग्नायी / 3 / 2 / 52 // एयप्रत्ययेऽग्नाय्येव परतः स्त्री 'पुम्वत्' स्यात् / आग्नेयः / पूर्वेण सिद्धे नियमार्थमिदम् / श्यैनेयः // 52 // नाऽप-प्रियाऽऽदौ / 3 / 2 / 53 // अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री 'पुम्वन्न' स्यात् / कल्याणीपञ्चमा रात्रयः, कल्याणीप्रियः / अप्रियादाविति किम् ? कल्याणपञ्चमीकः पक्षः // 53 //