________________ 148 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // तद्धिताऽककोपान्त्य-पूरण्याख्याः / 3 / 2 / 54 // तद्धितस्याऽकप्रत्ययस्य च क उपान्त्यो यासां ताः, पूरणीप्रत्ययान्ताः, संज्ञाश्च परतः स्त्रियः ‘पुम्वन्न' स्युः / मद्रिकाभार्यः, कारिकाभार्यः, पञ्चमीभार्यः, दत्ताभार्यः / तद्धिताकेति किम् ? पाकभार्यः // 54 // - तद्धितः स्वरवृद्धिहेतुररक्त-विकारे / 3 / 2 / 55 // रक्त-विकाराभ्यामन्यार्थः स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्री 'पुम्वन्न' स्यात् / माथुरीभार्यः / स्वरेति किम् ? वैयाकरणभार्यः / वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थभार्यः / अरक्तविकार इति किम् ? काषायबृहतिकः, लौहेषः // 55 // स्वाङ्गान्डी तिश्चाऽमानिनि / 3 / 2 / 56 // स्वाङ्गाद् यो ङीस्तदन्तो जातिवाची च परतः स्त्री 'पुम्वन्न' स्यात्, न तु मानिनि / दीर्घकेशीभार्यः, कठीभार्यः, शूद्राभार्यः / स्वाङ्गादिति किम् ? पटुभार्यः / अमानिनीति किम् ? दीर्घकेशमानिनी // 56 // पुम्वत् कर्मधारये / 3 / 2 / 57 // परतः स्त्री अनूङ् कर्मधारये सति स्त्र्येकार्थे उत्तरपदे परे 'पुम्वत्' स्यात् / कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका / अनूङित्येव- ब्रह्मबन्धूवृन्दारिका // 57 / / रिति / 3 / 2 / 58 // परतः स्त्री अनूङ् रिति प्रत्यये 'पुम्वत्' स्यात् / पटुजातीया, कठदेशीया // त्व-ते गुणः / 3 / 2 / 59 // परतः स्त्र्यनूङ् गुणवचनस्त्व-तयोः प्रत्यययोः 'गुम्वत्' स्यात् / पटुत्वम्, पटुता / गुण इति किम् ? कठीत्वम् // 59 // .