________________ .. श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 143 आभ्यां परस्याः ‘सप्तम्या गुरावुत्तरपदे लुब् न' स्यात् / मध्येगुरुः, अन्तेगुरुः // 21 // अमूर्द्ध-मस्तकात् स्वाङ्गादकामे / 3 / 222 // मूर्द्धमस्तकवर्जात् स्वाङ्गवाचिनोऽद्व्यञ्जनात् परस्याः ‘सप्तम्याः कामवर्जे उत्तरपदे लुब् न' स्यात् / कण्ठेकालः / अमूर्द्धमस्तकादिति किम् ? मूर्धशिखः, मस्तकशिखः / अकाम इति किम् ? मुखकामः // 22 // बन्धे पनि नवा 3 / 2 / 23 // बन्धे घजन्ते उत्तरपदे अद्व्यञ्जनात् परस्याः ‘सप्तम्या लुब् वा न' स्यात् / हस्तेबन्धः, हस्तबन्धः; चक्रेबन्धः चक्रबन्धः / घनिति किम् ? अजन्ते - हस्तबन्धः // 13 // कालात् तन-तर-तम-काले / 3 / 2 / 24 // अद्व्यञ्जनान्तात् कालवाचिनः परस्याः ‘सप्तम्यास्तनादिप्रत्ययेषु काले. चोत्तरपदे वा लुब् न' स्यात् / पूर्वाह्नेतनः, पूर्वाह्नतनः, पूर्वाह्नेतराम्, पूर्वाह्नतरे; पूर्वाह्नतमाम्, पूर्वाह्नतमे; पूर्वाह्नेकाले पूर्वाह्नकाले / कालादिति किम् / शुक्तरे, शुक्तमे / अयानादित्येव - रात्रितरायाम् // 24 // शय-वासि-वासेष्वकालात् / 3 / 2 / 25 // अकालवाचिनोऽद्व्यञ्जनात् परस्याः ‘सप्तम्या एकूत्तरपदेषु लुब् वा न' स्यात् / बिलेशयः, बिलशयः; वनेवासी, वनवासी; ग्रामेवासः, ग्रामवासः / अकालादिति किम् ? पूर्वाह्नशयः // 25 // ___वर्ष-क्षर-वरा-ऽप्-सरः-शरोरोमनसो जे // 32 // 26 // एभ्यः परस्याः 'सप्तम्या जे उत्तरपदे लुब् वा न' स्यात् / वर्षेजः, वर्षजः; क्षरेजः, क्षरजः; वरेजः, वरजः; अप्सुजम्, अब्जम; सरसिजम्, सरोजम्;