________________ 142 . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // मनस आत्मनश्च परस्य ‘ट आज्ञायिन्युत्तरपदे लुब् न' स्यात् / मनसा ऽऽज्ञायी, आत्मनाऽऽज्ञायी // 15 // नाम्नि 3 / 2 / 16 // मनसः परस्य 'ट: संज्ञाविषये उत्तरपदे परे लुब् न' स्यात् / मनसा देवी / नाम्नीति किम् ? मनोदत्ता कन्या // 16 // परा-ऽऽत्मभ्यां उः / 3 / 2 / 17 // आभ्यां परस्य 'डेवचनस्योत्तरपदे परे नाम्नि लुब् न' स्यात् / परस्मै पदम्, आत्मनेपदम् / नाम्नीत्येव- परहितम् // 17 // अद्-व्यञ्जनात् सप्तम्या बहुलम् / 3 / 2 / 18 // अदन्ताद् व्यञ्जनान्ताच्च परस्याः ‘सप्तम्या बहुलं नाम्नि लुब् न' स्यात् अरण्येतिलकाः, युधिष्ठिरः / अद्व्यञ्जनादिति किम् ? भूमिपाशः / नाम्नी त्येव- तीर्थकाकः // 18 // प्राकारस्य व्यञ्जने / 3 / 2 / 19 // राजलभ्यो रक्षानिर्वेशः कारः / प्राचां देशे यः कारः तस्य संज्ञायां गम्यः मानायामद्व्यञ्जनात् परस्याः ‘सप्तम्या व्यञ्जनादावुत्तरपदे लुब् न' स्यात् मुकुटेकार्षापणः, समिधिमाषकः / प्रागिति किम् ? यूथपशुः - उदीचा- म न प्राचाम् / कार इति किम् ? अभ्यर्हितपशुः / व्यञ्जन इति किम् अविकटोरणः // 19 // तत्पुरुषे कृति / 3 / 2 / 20 // अव्यञ्जनात् परस्याः ‘सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुब् न' स्यात् स्तम्बेरमः, भस्मनिहुतम् / तत्पुरुष इति किम् ? धन्वकारकः / अद्यत नादित्येव- कुरुचरः // 20 // मध्याऽन्ताद् गुरौ / 3 / 2 / 21 //