________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् / (द्वितीयः पादः).. समानानां तेन दीर्घः / 1 / 2 / 1 // समानानां तेन-समानेन परेण सह 'दीर्घः' स्यात् / दण्डानम्, दधीदम्, नदीन्द्रः // 1 // ऋलति हस्वो वा // 1 // 2 // 2 // ऋति लति च परे समानानां 'हस्वो वा' स्यात् / बालऋश्यः, लऋषभः, होतृलकारः / पक्षे बालीः // 2 // लत हल ऋलभ्यां वा / 1 / 2 / 3 // लत ऋता लता च सह यथासंख्यं 'ट-लू' इत्येतौ वा स्याताम् / ऋताकारः, पक्षे लऋकारः, ऋकारः / लता-ट्रकारः, पक्षे ललकारः, लूकारः // 3 // ऋतो वा, तौ च // 1 // 2 // 4 // ऋत ऋलभ्यां सह यथासंख्यं 'ट-ल' इत्येतौ वा स्याताम्, तौ च-ऋकारलकारौ ऋलभ्यां सह वा स्याताम् / ऋता- पिषभः, पक्षे पितृऋषभः, पितृषभः / लता-होत्लकारः, पक्षे होतृलकारः, होतकारः / तौ चपितृषभः, होत्लकारः, पक्षे पूर्ववत् // 4 // ऋस्तयोः / 12 / 5 // तयोः पूर्वस्थानिनोर्तृकार-ऋकारयोर्यथासंख्यम् ऋलभ्यां सह 'ऋ' इति दीर्घः स्यात् / ऋषभः, होतृकारः // 5 // अवर्णस्येवर्णादिनैदोदरलू / 1 / 2 / 6 // अवर्णस्य 'इ-उ-ऋ-लवर्णैः' सह यथासंख्यम् ‘एत् ओत् अर् अल्' इत्येते स्युः / देवेन्द्रः, तवेहा, मालेयम्, सेक्षते, तवोदकम्, तमेढा, तवर्षिः, तवर्कारः, महर्षिः, सरिः, तवल्कारः, सल्कारेण // 6 //