________________ .श्रीसिद्धहेमचन्द्रशब्दानुशासनम् - डत्यतुं संख्यावत् / 11 / 39 // डत्यन्तम् अत्वन्तं च 'संख्याकार्यभाक्' स्यात् / कतिकः, यावत्कः // 39 // बहु-गणं भेदे 1111140 // बहु-गणशब्दो भेदवृत्ती ‘सङ्ख्यावत्' स्याताम् / बहुकः, गणकः / भेद इति किम् ? वैपुल्ये संघे च मा भूत् // 40 // क-समासेऽध्यर्द्धः / 1 / 1 / 41 // अध्यर्द्धशब्दः के प्रत्यये समासे च विधेये ‘संख्यावत्' स्यात् / अध्यर्द्धकम्, अध्यर्द्धशूर्पम् // 41 // अर्द्धपूर्वपदः पूरणः // 11 // 42 // अर्द्धपूर्वपदः पूरणप्रत्ययान्तः के प्रत्यये समासे च कार्ये ‘संख्यावत्' स्यात् / अर्द्धपञ्चमकम्, अर्द्धपञ्चमशूर्पम् // 42 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्ती प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः / / 1 / 1 / / हरिरिव बलिबन्धकर,-स्त्रिशक्तियुक्तः पिनाकपाणिरिव / कमलाश्रयश्च विधिरिव, जयति श्रीमूलराजनृपः // 1 // XOX ---