________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 139 ब्राह्मणक्षत्रियविशः, बलदेववासुदेवौ / / 161 // * भर्तुतुल्यस्वरम् / 3 / 1 / 162 // 'नक्षत्रर्तुवाचि तुल्यस्वरं द्वन्द्वेऽनुपूर्वं प्राक्' स्यात् / अश्विनीभरणीकृत्तिकाः, हेमन्तशिशिरवसन्ताः / तुल्यस्वरमिति किम् ? आर्द्रामृगशिरसी, ग्रीष्मवसन्तौ // 162 // संख्या समासे / 3 / 1 / 163 // 'समासमात्रे संख्यावाच्यनुपूर्वं प्राक्' स्यात् / द्वित्राः, द्विशती, एकादशः // 163 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्ती तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः // 31 // असंरब्धा अपि चिरं दुःसहा वैरभूभृताम् / चण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः // 9 // (द्वितीयः पादः) परस्परा-ऽन्योऽन्येतरेतरस्याम् स्यादेर्वाऽपुंसि / 3 / 2 / 1 // 'एषामपुंवृत्तीनां स्यादेराम् वा' स्यात् / इमे सख्यौ कुले वा परस्परां परस्परम्, अन्योऽन्यामन्योऽन्यम्, इतरेतरामितरेतरं भोजयतः / आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योऽन्यामन्योऽन्येन, इतरेतरामितरेतरेण भोज्यते / अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति // 1 // ... अमव्ययीभावस्याऽतोऽपञ्चम्याः / 3 / 2 / 2 // 'अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः' / उपकुम्भमस्ति,