________________ 138 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // इन्द्वादेः प्रहरणार्थाच्च 'प्राक् सप्तम्यन्तं बहुव्रीहौ न' स्यात् / इन्दुमौलिः, पद्मनाभः, असिपाणिः // 155 / / गड्वादिभ्यः / 3 / 1156 // गड्वादिभ्यो 'बहुव्रीही सप्तम्यन्तं प्राग् वा स्यात् / कण्ठेगडुः, गडुकण्ठः; मध्येगुरुः, गुरुमध्यः // 156 // प्रियः / 3 / 1 / 157 // अयम् ‘बहुव्रीहौ प्राग् वा' स्यात् / प्रियगुडः, गुडप्रियः // 157|| कडारादयः कर्मधारये / 3 / 1 / 158 // 'एते कर्मधारये प्राग् वा' स्युः / कडारजैमिनिः, जैमिनिकडारः; काणद्रोणः, द्रोणकाणः // 15 // धर्मार्थादिषु द्वन्द्वे / 3 / 1 / 159 // .. 'एषु द्वन्द्वेष्वप्राप्तप्राक्त्वं वा प्राक्' स्यात् / धार्थी, अर्थधर्मी; शब्दार्थी, अर्थशब्दौ // 159 // लघ्वक्षरा-ऽसखीदुत्- स्वराद्यदल्पस्वरा-ऽय॑मेकम् 31160 // 'लघ्वक्षरं सखिवर्जेदुदन्तं स्वराधकारान्तमल्पस्वरं पूज्यवाचि चैकं द्वन्द्वे प्राक्' स्यात् / शरशीर्यम्, अग्नीषोमो, वायुतोयम् / असखीति किम् ? सुतसखायौ / अस्त्रशस्त्रम्, पक्षन्यग्रोधी, श्रद्धामेधे / लघ्वादीति किम् ? कुक्कुटमयूरी, मयूरकुक्कुटौ / एकमिति किम् ? शङ्खदुन्दुभिवीणाः / द्वन्द्व इत्येव विस्पष्टपटुः // 160 // मास-वर्ण-भ्रात्रऽनुपूर्वम् / 3 / 1 / 161 // एतद्वाचि 'द्वन्द्वेऽनुपूर्वं प्राक्' स्यात् / फाल्गुनचैत्रौ, ब्राह्मणक्षत्रियौ,