________________ श्रीसिद्भहेमचन्द्रशब्दानुशासनम् 135 सैनाङ्गानां क्षुद्रजन्तूनां च बह्वानाम् ‘स्वैर्द्वन्द्व एकार्थो नित्यम्' स्यात् / अश्वरथम्, यूकालिक्षम् // 134 // फलस्य जातौ / 3 / 1 / 135 // फलवाचिनां बह्वर्थानां जाती 'स्वैर्द्वन्द्व एकार्थो नित्यम्' स्यात् / बदरामलकम् / जाताविति किम् ? एतानि बदरामलकानि सन्ति // 135 // अप्राणि-पश्वादेः / 3 / 1 / 136 // प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानाम् 'स्वैर्द्वन्द्व एकार्थः' स्यात् / आराशस्त्रि / जातावित्येव - सह्यविन्ध्यौ / प्राण्यादिवर्जनं किम् ? ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविट्शूद्रम्; गोमहिषौ, गोमहिषम्; पक्षन्यग्रोधी, पक्षन्यग्रोधम्; अश्वरथौ, अश्वरथम्; बदरामलके, बदरामलकम् // 136 // प्राणि-तूर्याङ्गाणाम् / 3 / 11137 // प्राणितूर्ययोरङ्गार्थानाम् ‘स्वैर्द्वन्द्व. एकार्थः' स्यात् / कर्णनासिकम्, मार्दशिकपाणविकम् / स्वैरित्येव- पाणिगृध्रौ // 137 // चरणस्य स्थेणोऽद्यतन्यामनुवादे / 3 / 1 / 138 // चरणाः कठादयः, तद्वाचिनामद्यतन्यां यौ स्थेणी तयोः कर्तृत्वेन सम्बन्धिनाम् ‘स्वैर्द्वन्द्वोऽनुवादविषये एकार्थः' स्यात् / प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम् / अनुवाद इति किम् ? उदगुः कठकालापाः - अप्र- सिद्धं कथयन्ति // 138 // __ अक्कीबेऽध्वर्युक्रतोः / 3 / 1 / 139 // अध्वर्युः- यजुर्वेदः, तद्विहितक्रतुवाचिनाम् 'स्वैर्द्वन्द्व एकार्थः स्यात्, न देते कीबवृत्तयः' / अर्काश्वमेधम् / अक्लीब इति किम् ? गवामयनादि