________________ 134 . श्रीसिद्भहेमचन्द्रशब्दानुशासनम् // च शुक् च-शुक्ले / तन्मात्रभेद इत्येव- हिमहिमान्यौ // 128 // पुष्यार्थाद् भे पुनर्वसुः / 3 / 11129 // 'पुष्यार्थानक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोक्तौ व्यर्थः सन् एकार्थः' स्यात् / उदितौ पुष्यपुनर्वसू, उदितौ तिष्यपुनर्वसू / पुष्यार्थादिति किम् ? आपुनर्वसवः / पुनर्वसुरिति किम् ? पुष्यमघाः / भ इति किम् ? तिष्यपुनर्वसवो बालाः // 129 // विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः / 3 / 1 / 130 // द्रव्यम्- गुणाद्याश्रयः, विरोधिवाचिनाम् अतदाश्रयवृत्तीनां द्वन्द्वो वैकार्थः स्यात्, स्वैः- सजातीयैरेवाऽऽरब्धश्चेत्' / सुखदुःखम् , सुखदुःखे; लाभालाभम्, लाभालाभौ / विरोधिनामिति किम् ? कामक्रोधी / अद्रव्याणामिति किम् ? शीतोष्णे जले / स्वैरिति किम् ? बुद्धिसुखदुःखानि // 130 // __ अश्ववडव- पूर्वापरा-ऽधरोत्तराः / 3 / 1131 // 'एते त्रयोऽपि द्वन्द्वा एकार्था वा स्युः, स्वैश्चेत् / अश्ववडवम्, अश्ववडवी; पूर्वापरम्, पूर्वापरे; अधरोत्तरम्, अधरोत्तरे // 131 // पशु-व्यञ्जनानाम् / 3 / 1 / 132 // पशूनां व्यअनानां च 'स्वैर्द्वन्द्व एकार्थो वा' स्यात् / गोमहिषम्, गोमहिषौ; दधिघृतम्: दधिघृते // 132 // तरु-तृण-धान्य-मृग-पक्षिणां बहुत्वे / 3 / 1 / 133 // एतद्वाचिनां बर्थानां प्रत्येकम् 'स्वैर्द्वन्द्व एकार्थो वा' स्यात् / पक्षन्यग्रोधम्, पक्षन्यग्रोधाः; कुशकाशम्, कुशकाशाः; तिलमाषम्, तिलमाषाः; ऋश्यैणम्, ऋश्यणाः; हंसचक्रवाकम्, हंसचक्रवाकाः // 133 // सेनाङ्ग-क्षुद्रजन्तूनाम् / 3 / 1 / 134 //