________________ 133 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वृद्धो यूना तन्मात्रभेदे / 3 / 1 / 124 // यूना सहोक्तौ 'वृद्धवाच्येकः शिष्यते, तन्मात्रभेदे'- न चेत् प्रकृतिभेदोऽर्थभेदो वाऽन्यः स्यात् / गार्ग्यश्च गार्यायणश्च गाग्र्यो / वृद्ध इति किम् ? गर्गगार्यायणौ / यूनेति किम् ? गार्यगर्ने / तन्मात्रभेद इति किम् ? गार्यवात्स्यायनी // 124 // स्त्री पुंवच / 3 / 1125 // 'वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते, पुल्लिङ्गश्चायं तन्मात्रभेदे' / गार्गी च गार्यायणश्च= गाग्र्यो, गार्गी च गाायणौ च-गर्गान् / / 125 / / पुरुषः स्त्रिया / 3 / 1 / 126 // पुरुषशब्दः प्राणिनि पुंसि रूढः, स्त्रीवाचिना सहोक्तौ 'पुरुष एकः शिष्यते' स्त्रीपुरुषमात्रभेदश्चेत् / ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ / पुरुष इति किम् ? तीरं नदनदीपतेः / तन्मात्रभेद इत्येव- स्त्रीपुंसौ // 126 // ग्राम्याऽशिशुद्विशफसंघे स्त्री प्रायः / 3 / 1 / 127 // ग्राम्या अशिशवो ये द्विशफा- द्विखुरा अर्थात् पशवस्तेषां संघे स्त्रीपुरुषसहोक्तौ 'प्रायः स्त्रीवाच्येकः शिष्यते' स्त्रीपुरुषमात्रभेदश्चेत् / गावश्च स्त्रियः गावश्च नराः=इमा गावः / ग्राम्येति किम् ? रुरवश्चमे रुरवश्चेमाः इमे रुरवः / अशिश्विति किम् ? बकर्यश्च बर्कराश्च बर्कराः / द्विशफेति किम् ? गर्दभाश्च गर्दभ्यश्च गर्दभाः / संघ इति किम् ? गौश्चायं गौश्चेयम्=इमौ गावौ / प्राय इति किम् ? उष्ट्रयश्च उष्ट्राश्च= उष्ट्राः / / 127 // कीबमन्येनैकं च वा / 3 / 1 / 128 // कीबम्- 'नपुंसकम्, अन्येना-ऽक्लीबेन सहोक्तावेकं शिष्यते, लीबाऽक्लीबमात्रभेदे, तच्च शिष्यमाणमेकमेकार्थं वा' स्यात् / शुक्वं च शुक्लश्च शुक् शुक्ले वा / शुक्वं च शुक्लश्च शुक्ला च=शुरूं शुक्लानि वा / अन्येनेति किम् ? शुक्वं