________________ - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 131 धारयश्च' स्यात् / गोगर्भिणी, महिषगर्भिणी / जातिरित्येव- कालाक्षी गर्भिणी // 11 // युवा खलति-पलित-जरद्-वलिनैः 13 / 1113 // युवन्नित्येकार्थमेभिः ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / युवखलतिः, युवपलितः, युवजरन्, युववलिनः, युववलिना // 113 // कृत्य-तुल्याऽऽख्यमजात्या / 3 / 1 / 114 // कृत्यान्तं तुल्यपर्यायं चैकार्थमजात्यर्थेन सह ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / भोज्योष्णम्, स्तुत्यपटुः; तुल्यसन्, सदृशमहान् / अजात्येति किम् ? भोज्य ओदनः // 114 // कुमारः श्रमणादिना / 3 / 1115 // कुमार इत्येकार्थं श्रमणादिना ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / कुमारश्रमणा, कुमारप्रव्रजिता // 115 // ___ मयूरव्यंसकेत्यादयः / 3 / 1 / 116 // एते 'तत्पुरुषसमासा निपात्यन्ते / मयूरव्यंसकः, कम्बोजमुण्डः; एहीडं कर्म, अश्नीतपिबता क्रिया, कुरुकटो वक्ता,. गतप्रत्यागतम्, क्रयाक्रयिका, शाकपार्थिवः, त्रिभागः, सर्वश्वेतः // 116 // चार्थे द्वन्द्वः सहोक्तौ / 3 / 11117 // नाम नाम्ना सह ‘सहोक्तिविषये चार्थवृत्तिः समासो द्वन्द्वः' स्यात् / पक्षन्यग्रोधी, वाक्त्वचम् / नाम नाम्नेत्यनुवृत्तावपि “लघ्वक्षरा० (३,१,१६०)"दिसूत्रे एकग्रहणाद् बहूनामपि - धवखदिरपलाशाः / चार्थ इति किम् ? वीप्सासहोक्तौ मा भूत्- ग्रामो ग्रामो रमणीयः / सहोक्ताविति किम् ? पक्षश्च न्यग्रोधश्च वीक्ष्यताम् // 117 //