________________ 130 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // कर्मधारयश्च' स्यात् / सत्पुरुषः, महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः / पूजायामिति किम् ? सन् घटोऽस्तीत्यर्थः // 107 // वृन्दारक-नाग-कुञ्जरैः / 3 / 1108 // पूजायां गम्यायामेभिः सह पूज्यवाच्येकार्थम् ‘समासस्तत्पुरुषः, कर्मधारयश्च' स्यात् / गोवृन्दारकः, गोनागः, गोकुञ्जरः / पूजायामिति किम् ? सुसीमो नागः // 108 // कतर-कतमौ जातिप्रश्ने / 3 / 1 / 109 // एतावेकार्थो जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / कतरकठः, कतमगार्यः / जातिप्रश्न इति किम् ? कतरः शुक्ः, कतमो गन्ता // 109 / / किं क्षेपे / 3 / 1 / 110 // निन्दायां गम्यमानायां . किमित्येकार्थं कुत्स्यवाचिना 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / किंराजा, किंगौः / क्षेप इति किम् ? को राजा तत्र // 110 // पोटा-युवति-स्तोक-कतिपय-गृष्टि-धेनु-वशा-वेहद्-बष्कयणीप्रवक्त-श्रोत्रिया-ऽध्यायक-धूर्त-प्रशंसारूढातिः / 3 / 1111 // पोटादिभिः प्रशंसारूढैश्च सह जातिवाच्येकार्थम् ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / इभ्यपोटा, नागयुवतिः, अग्निस्तोकम्, दधिकतिपयम्, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत्, गोबष्कयणी, कठप्रवक्ता, कठश्रोत्रियः, कठाध्यायकः, मृगधूर्तः; गोमतल्लिका, गोप्रकाण्डम् // 111 // चतुष्पाद् गर्भिण्या / 3 / 1 / 112 // चत्वारः पादा यस्या जातेस्तद्वाच्येकार्य गर्भिण्या “समासस्तत्पुरुषः कर्म