________________ 128 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // पूर्वः कालो यस्य तद्वाच्येकादीनि चैकार्थानि परेण नाम्ना ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / स्नातानुलिप्तः, एकशाटी, सर्वान्नम्, जरद्वः, पुराणकविः, नवोक्तिः, केवलज्ञानम् / एकार्थमित्येव- स्नात्वाऽनुलिप्तः // 97 / / दिगधिकं संज्ञा-तद्धितोत्तरपदे / 3 / 1 / 98 // दिग्वाच्यधिकं चैकार्थं नाम्ना ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात्, संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः / दक्षिणकोशलाः, पूर्वेषुकामशमी, दाक्षिणशालः; अधिकषाष्टिकः; उत्तरगवधनः, अधिकगवप्रियः // 98 // संख्या समाहारे च द्विगुश्चाऽनाम्न्ययम् / 3 / 1 / 99 // संख्यावाचि परेण नाम्ना ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात्, संज्ञातद्धितयोर्विषये, उत्तरपदे च परे, समाहारे चार्थे, 'अयमेव चाऽसंज्ञायां द्विगुश्च' / पञ्चाम्राः, सप्तर्षयः; द्वैमातुरः, अध्यर्द्धकंसः; पञ्चगवधनः, पञ्चनावप्रियः; पञ्चराजी / समाहारे चेति किम् ? अष्टौ प्रवचनमातरः / अनाम्नीति किम् ? पाञ्चर्षम् // 99 // निन्यं कुत्सनैरपापाद्यैः / 3 / 1 / 100 // निन्द्यवाचि निन्दाहेतुभिः पापादिवजैः सह ‘समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / वैयाकरणखसूची, मीमांसकदुर्दुरूढः / निन्द्यमिति किम् ? वैयाकरणश्चौरः / अपापाद्यैरिति किम् ? पापवैयाकरणः, हतविधिः // 100 // उपमानं सामान्यैः / 3 / 1101 // उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्मवाचिभिरेव 'समासस्तत्पुरुषः कर्मधारयश्च' स्यात् / शस्त्रीश्यामा, मृगचपला / उपमानमिति किम् ? देवदत्ता श्यामा / सामान्यैरिति किम् ? अग्निर्माणवकः / / 101 // उपमेयं व्याघ्राद्यैः साम्यानुक्तौ / 3 / 1 / 102 // उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मानुक्तौ ‘समासस्तत्पुरुषः