________________ 126 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // दोहोऽगोपालकेन / तृतीयायामिति किम् ? शब्दानुशासनं गुरोः // 84 // तृप्तार्थ-पूरणा-ऽव्यया-ऽतृश्-शत्रानशा / 3 / 1185 // तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च 'षष्ठ्यन्तं न समस्यते' / फलामां तृप्तः, तीर्थकृतां षोडशः, राज्ञः ‘साक्षात्, रामस्य द्विषन्, चैत्रस्य पचन्, मैत्रस्य पचमानः // 85 // - ज्ञानेच्छाऽर्चार्थाऽऽधारक्तेन / 3 / 1 / 86 // ज्ञानेच्छार्थेिभ्यो यो वर्तमाने तो यश्च “अद्यर्थाच्चाधारे (5.1.12.)" इत्याधारे क्तस्तदन्तेन 'षष्ठ्यन्तं न समस्यते' / राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञां पूजितः, इदमेषां यातम् // 86 // अस्वस्थगुणैः / 3 / 187 // ये गुणाः स्वात्मन्येव तिष्ठन्ति न द्रव्ये ते स्वस्थास्तप्रतिषेधेनाऽस्वस्थगुणवाचिभिः 'षष्ठ्यन्तं न समस्यते' / पटस्य शुकः, गुडस्य मधुरः / अस्वस्थगुणैरिति किम् ? घटवर्णः, चन्दनगन्धः // 87 / / सप्तमी शौण्डायैः / 3 / 1 / 88 // एभिः सहकार्ये 'सप्तम्यन्तं समासस्तत्पुरुषः' स्यात् / पानशौण्डः, अक्षधूर्तः // 8 // सिंहाथैः पूजायाम् / 3 / 1 / 89 // एभिः ‘सप्तम्यन्तं समासस्तत्पुरुषः' स्यात्, पूजायां गम्यमानायाम् / समरसिंहः, भूमिवासवः // 89 // काकायैः क्षेपे / 3 / 1 / 90 // एभिः ‘सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः' स्यात् / तीर्थकाकः, तीर्थश्वा / क्षेप इति किम् ? तीर्थे काकोऽस्ति / / 90 //