________________ 124 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // विकारार्थं समासस्तत्पुरुषः' स्यात् / यूपदारु / प्रकृत्येति किम् ? रन्धनाय स्थाली // 70 // हितादिभिः / 3 / 171 // 'चतुर्थ्यन्तं हितायैः समासस्तत्पुरुषः' स्यात् / गोहितम्, गोसुखम् // 71 // तदर्थाऽर्थेन / 3 / 1 / 72 // चतुर्थ्यर्थो यस्य तेनार्थेन 'चतुर्थ्यन्तं समासस्तत्पुरुषः' स्यात् / पित्र) पय आतुरार्था यवागूः / तदर्थार्थेमेति किम् ? पित्रेऽर्थः / / 72 / / पञ्चमी भयाद्यैः 3173 // 'पञ्चम्यन्तं भयाधैरैकार्थे समासस्तत्पुरुषः' स्यात् / वृकभया वृकभीरुः / / 73 // क्तेनाऽसत्त्वे / 3 / 1174 // असत्त्ववृत्तेर्या पञ्चमी तदन्तं क्तान्तेन ‘समासस्तत्पुरुषः' स्यात् / स्तोकान्मुक्त अल्पान्मुक्तः, दूरादागतः / असत्त्व इति किम् ? स्तोकाद् बद्धः / / 74 / / परःशतादि / 3 / 175 // अयम् ‘पञ्चमीतत्पुरुषः साधुः' स्यात् / परःशताः, परःसहस्राः // 75 // षष्ट्ययत्नाच्छेषे / 3 / 176 // "शेषे (2,2,81)" या षष्ठी तदन्तं नाम नाम्नैकार्थे समासस्तत्पुरुष स्यात्, न चेत् स शेषः “नाथ (2,2,10)" इत्यादेर्यलात् / राजपुरुषः अयलादिति किम् ? सर्पिषो नाथितम् / शेष इति किम् ? गवां कृष्ण सम्पन्नक्षीरा // 76 // कृति / 3.177 // “कर्मणि कृतः (2,2,83)" "कर्तरि (2, 2,86)" इति च ‘या कृन्निमित्त