________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 123 ईषदव्ययं गुणवचनैः ‘समासस्तत्पुरुषः' स्यात् / ये गुणे वर्तित्वा तद्योगाद् गुणिनि वर्तन्ते ते गुणवचनाः / ईषपिङ्गलः, ईषद्रक्तः / गुणवचनैरिति किम् ? ईषद्गार्यः // 64 // तृतीया तत्कृतैः / 3 / 1 / 65 // तृतीयान्तं तदर्थकृतैर्गुणवचनैरैकार्थे 'समासस्तत्पुरुषः' स्यात् / शकुलाखण्डः, मदपटुः / तत्कृतैरिति किम् ? अक्ष्णा काणः / गुणवचनैरित्येव - दना पटुः पाटवमित्यर्थः // 65 // चतम्रार्द्धम् / 3 / 1 / 66 // अर्द्धस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन 'समासस्तत्पुरुषः' स्यात् / अर्द्धचतम्रो मात्राः / चतस्रति किम् ? अर्द्धन कृताश्चत्वारो द्रोणाः // 66 / / ऊनार्थपूर्वाद्यैः / 3 / 1 / 67 // तृतीयान्तम् ऊनाथैः पूर्वाद्यैश्च ‘समासस्तत्पुरुषः' स्यात् / माषोनम्, माषविकलम्; मासपूर्वः, मासावरः // 67 // कारकं कृता / 3 / 1 / 68 // कारकवाचि तृतीयान्तं कृदन्तेन 'समासस्तत्पुरुषः' स्यात् / आत्मकृतम्, नखनिर्भिन्नः, काकपेया नदी, बाष्पच्छेद्यानि तृणानि / कारकमिति किम् ? विद्ययोषितः // 68 // नविंशत्यादिनैकोऽचान्तः / 3 / 1 / 69 // एकशब्दस्तृतीयान्तो नविंशत्यादिना सह 'समासस्तत्पुरुषः स्यात्, एकस्य चाऽदन्तः' / एकानविंशतिः, एकाद्नविंशतिः; एकानत्रिंशत्, एकाद्नत्रिंशत् // 69 // . चतुर्थी प्रकृत्या / 3 / 1170 // प्रकृतिः - परिणामि कारणम्, एतद्वाचिनैकार्थे 'चतुर्थ्यन्तं