________________ श्रीसिद्भहेमचन्द्रशब्दानुशासनम् __ 121 नञ् / 3 / 1151 // नञ् नाम नाम्ना ‘समासस्तत्पुरुषः' स्यात् / अगौः; न सूर्यं पश्यन्ति असूर्यपश्या राजदाराः // 51 // पूर्वा-ऽपरा-ऽधरोत्तरमभिन्नांशिना / 3 / 1152 // पूर्वादयोऽशार्था अंशवद्वाचिना 'समासस्तत्पुरुषः' स्यात्, न चेत् सोंऽशी भिन्नः / पूर्वकायः, अपरकायः, अधरकायः, उत्तरकायः / अभिन्नेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व / अंशिनेति किम् ? पूर्वो नाभेः कायस्य // 52 // सायानादयः / 3 / 1153 // 'एतेंऽशितत्पुरुषाः साधवः' स्युः / सायाह्नः, मध्यन्दिनम् // 53 // समेंऽशेऽर्द्व नवा / 3 / 1154 // समांशार्थमर्द्धमशिनाऽभिन्नेन ‘वा समासस्तत्पुरुषः' स्यात् / अर्द्धपिप्पली, पिप्पल्यर्द्धम् / समेंश इति किम् ? ग्रामार्द्धः // 54 // . जरत्यादिभिः / 3 / 1155 // एभिरंशिभिरभिन्नरर्हो ‘वा समासस्तत्पुरुषः' स्यात् / अर्द्धजरती, जरत्यर्द्धः; अोक्तम्, उक्तार्द्धः // 55 // द्वि-त्रि-चतुष्पूरणा-ऽग्रादयः / 3 / 1156 // पूरणप्रत्ययान्ता द्वि-त्रि-चत्वारोऽग्रादयश्चाभिन्ननाशिना ‘वा समासस्तत्पुरुषः' स्यात् / द्वितीयभिक्षा, भिक्षाद्वितीयम्; तृतीयभिक्षा, भिक्षातृतीयम्; तुर्यभिक्षा, भिक्षातुर्यम्; अग्रहस्तः; हस्ताग्रम्; तलपादः, पादतलम् // 56 // कालो द्विगौ च मेयैः / 3 / 1157 // कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना ‘समासस्तत्पुरुषः' स्यात् /