________________ 120 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाम्ना सह नित्यं समासस्तत्पुरुषः' स्यात् / अतिस्तुत्य; अतिराजा // 45 // आङल्पे / 3 / 1 / 46 // आङित्यव्ययमल्पार्थं नाम्ना सह 'समासस्तत्पुरुषः' स्यात् / आकडारः // 46 // प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान- क्रान्ताद्यर्थाः प्रथमाद्यन्तैः / 3 / 1147 // प्रादयो गताद्याः प्रथमान्तैः, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तैः, अवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः, निरादयः क्रान्ताद्यर्थाः पञ्चम्यन्तैर्नित्यम् ‘समासस्तत्पुरुषः' स्यात् / प्राचार्यः, समर्थः; अतिखट्वः, उद्वेलः; अवकोकिलः, परिवीरुत्, पर्यध्ययनः; उत्सङ्ग्रामः; निष्कौशाम्बिः, अपशाखः; बाहुलकात् षष्ठ्याऽपि - अन्तार्यः / गताद्यर्था इति किम् ? वृक्षं प्रति विद्युत् / अन्य इत्येव - प्राचार्यको देशः // 47 // अव्ययं प्रवृद्धादिभिः // 3 // 1 // 48 // अव्ययं प्रवृद्धादिभिस्सह 'नित्यं समासस्तत्पुरुषः' स्यात् / पुनःप्रवृद्धम्, अन्तर्भूतः // 48 // उस्युक्तं कृता / 3 / 1 // 49 // कृप्रत्ययविधायके सूत्रे ङस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना 'नित्यं समासस्तत्पुरुषः' स्यात् / कुम्भकारः / उस्युक्तमिति किम् ? अलं कृत्वा / कृतेति किम् ? धर्मो वो रक्षतु // 49 // तृतीयोक्तं वा / 3 / 1 / 50 // . "दंशेस्तृतीयया (5.4.73)" इत्यतो यत्तृतीयोक्तं नाम तत् कृदन्तेन 'वा समासस्तत्पुरुषः स्यात्' / मूलकोपदंशम्, मूलकेनोपदंशं भुङ्क्ते // 50 //