________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 117 संख्यावाचि ‘समासोऽव्ययीभावः स्यात्, पूर्वपदस्यार्थे वाच्ये' / एकमुनि व्याकरणस्य, सप्तकाशि राज्यस्य / पूर्वार्थ इति किम् ? द्विमुनिकं व्याकरणम् // 29 // पारे-मध्ये-ऽग्रे-ऽन्तः षष्ट्या वा / 3 / 1 // 30 // एतानि षष्ठ्यन्तेन पूर्वपदार्थे 'समासोऽव्ययीभावो वा' स्युः / पारेगङ्गम्, मध्येगङ्गम्, अग्रेवणम्, अन्तर्गिरम्; पक्षे गङ्गापारम्, गङ्गामध्यम्, वनाग्रम्, गिर्यन्तः // 30 // यावदियत्त्वे / 3.1131 // इयत्त्वे-ऽवधारणे गम्ये यावदिति नाम नाम्ना पूर्वपदार्थे वाच्ये 'समासोऽव्ययीभावः' स्यात् / यावदमत्रं भोजय / इयत्त्व इति किम् ? यावद् दत्तं तावद् भुक्तम् // 31 // पर्यपा-ऽऽबहिरच् पञ्चम्या / 3 / 1 // 32 // एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये 'समासोऽव्ययीभावः' स्युः / परित्रिगतम्, अपत्रिगतम्, आग्रामम्, बहिमिम्, प्राग्रामम् / पञ्चम्येति किम् ? परि वृक्षं विद्युत् // 32 // लक्षणेनाऽभि-प्रत्याभिमुख्ये / 3 / 1 // 33 // लक्षणम्- चिह्नम्, तद्वाचिनाऽऽभिमुख्यार्थावभि-प्रती पूर्वपदार्थेऽर्थे ‘समासोऽव्ययीभावः' स्याताम् / अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति / लक्षणेनेति किम् ? सुनं प्रति गतः / पूर्वपदार्थ इत्येव- अभ्यङ्का गावः // 33 // दैयेऽनुः / 3 / 1134 // दैर्ये- आयामविषये यल्लक्षणं तद्वाचिना पूर्वपदार्थेऽनुः ‘समासोऽव्ययीभावः' स्यात् / अनुगङ्गं वाराणसी / दैर्घ्य इति किम् ? वृक्षमनु विद्युत् // 34 //