________________ 116 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // . दिशो रूल्याऽन्तराले / 3 / 1 / 25 // रूढ्या दिग्वाचि नाम रूढ्यैव दिग्वाचिना सहान्तरालेऽन्यपदार्थे वाच्ये 'समासो बहुव्रीहिश्च' स्यात् / दक्षिणपूर्वा दिक् / रूढ्येति किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति (वाक्यमेव) // 25 // तत्राऽऽदाय मिथस्तेन प्रहत्येति सरूपेण युद्धेऽव्ययीभावः 3 // 1 // 26 // तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तं मिथः प्रहत्येति क्रियाव्यतिहारे, समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये 'समासोऽव्ययीभावश्च' स्यात् / केशाकेशि, दण्डादण्डि / तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा, मुखं च मुखं च प्रहृत्य कृतं युद्धम् / आदायेति प्रहत्येति च किम् ? केशेषु च केशेषु च स्थित्वा, दण्डैश्च दण्डैश्चागत्य कृतं युद्धं गृहकोकिलाभ्याम् / सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् / युद्ध इति किम् ? हस्ते च हस्ते चाऽऽदाय सख्यं कृतम् // 26 // नदीभिर्नाम्नि // 3 // 1 // 27 // नाम नदीवाचिना संज्ञायामन्यपदार्थे 'समासोऽव्ययीभावश्च' स्यात् / उन्मत्तगङ्गं देशः, तूष्णींगङ्गम् / नाम्नीति किम् ? शीघ्रगङ्गो देशः // 27 // सङ्ख्या समाहारे / 3 / 1 / 28 // संख्यावाचि नदीवाचिभिः सह 'समाहारे गम्ये समासोऽव्ययीभावः' स्यात् / द्वियमुनम्, पञ्चनदम् / समाहार इति किम् ? एकनदी / द्विगुबाधनार्थं वचनम् // 28 // वंश्येन पूर्वार्थे / 3 / 1 / 29 // विद्यया जन्मना वा एकसन्तानो वंशः, तत्र भवो वंश्यः, तद्वाचिना नाम्ना