________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 115 सुजऽर्थो वारः, वाऽर्थो विकल्पः संशयो वा, तवृत्ति सङ्ख्यावाचि नाम सङ्ख्येयाऽर्थेन सङ्ख्यानाम्ना सहैकार्थ्ये 'समासो बहुव्रीहिश्च' स्यात् / द्विदशाः; द्वित्राः / सङ्खयेति किम् ? गावो वा दश वा / सङ्ख्ययेति किम् ? दश वा गावो वा / सङ्ख्येय इति किम् ? द्विविंशतिर्गवाम् / / 19 // आसना-ऽदूरा-ऽधिका-ऽध्यर्द्धा-ऽ दिपूरणं द्वितीयाद्यन्यार्थे ... 3 // 1 // 20 // आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्नैकार्थ्ये ‘समासः' स्यात्, द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्ख्येये वाच्ये, स च ‘बहुव्रीहिः' / आसनदशाः, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः, अर्द्धपञ्चमविंशाः // 20 // अव्ययम् / 3 / 1 / 21 // 'अव्ययं नाम सङ्ख्यानाम्नैकार्थ्य समस्यते' द्वितीयाद्यन्यार्थे सङ्ख्येये वाच्ये स च 'बहुव्रीहिः' / उपदशाः // 21 // एकार्थं चाऽनेकं च / 3 / 1 / 22 // एकमनेकं च ‘एकार्थम्-समानाधिकरणम्' अव्ययं च नाम्ना द्वितीयाघन्तान्यपदार्थे ‘समस्यते, स च बहुव्रीहिः' / आरूढवानरो वृक्षः, सुसूक्ष्मजटकेशः, उच्चैर्मुखः // 22 // उष्ट्रमुखादयः / 3 / 1 // 23 // एते 'बहुव्रीहिसमासा निपात्यन्ते' / उष्ट्रमुखमिव मुखमस्य-उष्ट्रमुखः, वृषस्कन्धः // 23 // सहस्तेन / 3 / 1 // 24 // तेनेति तृतीयान्तेन सहोऽन्यपदार्थे “समस्यते, स च बहुव्रीहिः' / सपुत्र आगतः, सकर्मकः // 24 //