________________ 112 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् // अर्हम् // अथ तृतीयोऽध्यायः (प्रथमः पादः) // धातोः पूजार्थस्वति- गतार्थाऽधिपर्यतिक्रमार्थाऽतिवर्जः - प्रादिरुपसर्गः प्राक् च / 3 / 11 // धातोः सम्बन्धी तदर्थद्योती 'प्रादिरुपसर्गः स्यात्, स च धातोः प्राक् - न परो न व्यवहितः, पूजार्थी स्वती, गतार्थावधिपरी, अतिक्रमार्थमतिञ्च वर्जयित्वा' / प्रणयति, परिणयति / धातोरिति किम् ? वृक्षं वृक्षमभि सेकः / पूजार्थस्वत्यादिवर्जनं किम् ? सुसिक्तम्, अतिसिक्तम् भवता; अध्यागच्छति, आगच्छत्यधि, पर्यागच्छति, आगच्छति परि; अतिसिक्त्वा / धातोरिति प्राक् चेति च गतिसंज्ञां यावत् // 1 // ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः / 3 / 1 // 2 // एते उपसर्गाश्च धातोः सम्बन्धिनो 'गतयः स्युस्ते च प्राग् धातोः' / ऊर्यादिःऊरीकृत्य, उररीकृत्य; अनुकरणम् - खाटकृत्य; च्यन्तः- शुक्लीकृत्य; डाजन्तःपटपटाकृत्य; उपसर्गः- प्रकृत्य // 2 // कारिका स्थित्यादौ / 3 / 13 / / स्थित्यादावर्थे कारिका ‘गतिः' स्यात् / स्थितिः- मर्यादा वृत्तिर्वा / कारिकाकृत्य // 3 // भूषा-ऽऽदर-क्षेपेऽलंसद-ऽसत् / 3 / 1 // 4 // एष्वर्थेष्वेते यथासंख्यम् ‘गतयः' स्युः / अलङ्कृत्य, सत्कृत्य, असत्कृत्य / भूषादिष्विति किम् ? अलं कृत्वा- मा कारीत्यर्थः // 4 // अग्रहा-ऽनुपदेशेऽन्तरदः / 3 / 115 //