________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 111 अस्याऽयत्-तत्-क्षिपकादीनाम् / 2 / 4 / 111 // यदादिवर्जस्याऽतोऽनित्क्याप्परे ‘इ:' स्यात् / पाचिका, मद्रिका / अनित्कीत्येवजीवका / आप्पर इत्येव- बहुपरिव्राजका / यदादिवर्जनं किम् ? यका, सका, क्षिपका, ध्रुवका / / 111 // नरिका-मामिका / 2 / 4 / 112 // नरका-मामकयोरित्वं निपात्यते / नरिका, मामिका // 112 // तारका-वर्णका-ऽष्टका ज्योतिस्- तान्तव-पितृदेवत्ये ..2 / 4 / 113 // एतेष्वर्थेषु यथासंख्यम् ‘एते इवर्जा निपात्यन्ते' / तारका ज्योतिः, वर्णका प्रावरणविशेषः, अष्टका पितृदेवत्यं कर्म // 113 // इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्ती द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः // 2 // 4 // श्रीमूलराजक्षितिपस्य बाहुर्बिभर्ति पूर्वाचलशृङ्गशोभाम् / संकोचयन् वैरिमुखाम्बुजानि, यस्मिन्नयं स्फूर्जति चन्द्रहासः // 8 // // द्वितीयोऽध्यायः समाप्तः //