________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 109 वेदूतोऽनव्यय-वृदीच-डीयुवः पदे / 2 / 4 / 98 // ईदूतोरुत्तरपदे परे ‘ह्रस्वो वा' स्यात् न चेतावव्ययौ य्वृतौ ईचौ ड्यौ इयुत्स्थानौ च स्याताम् / लक्ष्मिपुत्रः, लक्ष्मीपुत्रः; खलपुपुत्रः खलपूपुत्रः / अव्ययादिवर्जनं किम् ? काण्डीभूतम्, इन्द्रहूपुत्रः, कारीषगन्धीपुत्रः, गार्गीपुत्रः, श्रीकुलम्, भ्रूकुलम् // 18 // ड्यापो बहुलं नाम्नि / 2 / 4 / 99 // झ्यन्तस्याऽऽबन्तस्य चोत्तरपदे संज्ञायां 'हस्वः' स्यात्, बहुलम् / भरणि - गुप्तः; रेवतिमित्रः, रेवतीमित्रः; शिलवहम्; गङ्गमहः, गङ्गामहः // 19 // त्वे / 2 / 4 / 100 // झ्याबन्तस्य त्वे परे बहुलम् ‘हस्वः' स्यात् / रोहिणित्वम्, रोहिणीत्वम्; अजत्वम्, अजात्वम् // 100 // . भ्रुवोऽच कुंस-कुट्योः / 2 / 4 / 101 // अनयोः परयोर्भुवो ‘ह्रस्वोऽच्च' स्यात् / भ्रुकुंसः, भ्रकुंसः; भ्रुकुटिः, अकुटिः // 101 // मालेषीकेष्टकस्याऽन्तेऽपि भारि-तूल-चिते / 2 / 4 / 102 // एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यम् ‘ह्रस्वः' स्यात् / मालभारी, उत्पलमालभारी; इषीकतूलम्, इष्टकचितम् / / 102 // , गोण्या मेये / 2 / 4 / 103 // [ // 103 // गोण्या मानवृत्तेरुपचारान्मेयवृत्ते- हस्वः' स्यात् / गोण्या मितो गोणिः .' यादीदूतः के / 2 / 4 / 104 // झ्यादीदूदन्तानां च के प्रत्यये 'ह्रस्वः' स्यात् / पट्किा , सोमपकः, लक्ष्मिका, वधुका / / 104 //