________________ 108 श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वात्स्येन / अनातीति किम् ? गार्यायणः // 92 // . बिल्वकीयादेरीयस्य / 2 / 4 / 93 // नडादिस्था बिल्वादयः, तेषां कीयप्रत्ययान्तानाम् 'ईयस्य तद्धितयस्वरे लुक्' स्यात् / बैल्वकाः, वैणुकाः / बिल्वकीयादेरिति किम् ? नाडकीयः // 13 // न राजन्य-मनुष्ययोरके / 2 / 4 / 94 // अनयो-'र्योऽके परे लुग् न' स्यात् / राजन्यानां समूहो राजन्यकम्, एवं मानुष्यकम् // 14 // यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः / 2 / 4 / 95 // 'ड्यादेः प्रत्ययस्य गौणस्याक्विबन्तस्य तद्धितलुकि लुक् स्यात्, न तु गोणीसूच्योः' / सप्तकुमारः, पञ्चेन्द्रः, पञ्चयुवा, द्विपङ्गुः / गौणस्येति किम् ? अवन्ती / अक्विप इति किम् ? पञ्चकुमारी / अगोणी-सूच्योरिति किम् ? पञ्चगोणिः, दशसूचिः // 15 // ___गोश्चान्ते हस्वोऽनंशिसमासेयोबहुव्रीहौ / 2 / 4 / 96 // गौणस्याऽक्विपो गोङाद्यन्तस्य चान्ते वर्तमानस्य 'ह्रस्वः' स्यात्, न चेदसावंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा / चित्रगुः, निष्कौशाम्बिः, अतिखट्वः, अतिब्रह्मबन्धुः / गौणस्येत्येव- सुगौः, राजकुमारी / अक्विप इत्येव- प्रियगौः, प्रियकुमारी चैत्रः / गोश्चेति किम् ? अतितन्त्रीः / अन्त इति किम् ? गोकुलम्, कुमारीप्रियः, कन्यापुरम् / अंशिसमासादिवर्जन किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना // 16 // . कीबे / 2 / 4 / 97 // नपुंसकवृत्तेः स्वरान्तस्य नाम्नो 'ह्रस्वः' स्यात् / कीलालपम्, अतिनु कुलम् // 97 //