________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 107 कारीषगन्धीमातः, कारीषगन्ध्यामातः; कारीषगन्धीमाता, कारीषगन्ध्यामाता / कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः / / 85 / / अस्य इयां लुक् / 2 / 4 / 86 // ड्यां परे ‘-ऽस्य लुक्' स्यात् / मद्रचरी // 86 // मत्स्यस्य यः / 2 / 4 / 87 // 'मत्स्यस्य यो ङ्यां लुक्' स्यात् / मत्सी // 87 / / व्यन्जनात् तद्धितस्य / 2 / 4 / 88 // व्यञ्जनात् परस्य तद्धितस्य ‘यो ङ्यां लुक्' स्यात् / . मनुषी / व्यञ्जनादिति किम् ? कारिकेयी / तद्धितस्येति किम् ? वैश्यी // 88 // सूर्या-ऽऽगस्त्ययोरीये च / 2 / 4 / 89 // अनयो-'र्यो झ्यामीये च प्रत्यये लुक्' स्यात् / सूरी, आगस्ती, सौरीयः, आगस्तीयः // 89 // ___तिष्य-पुष्ययो भऽणि / 2 / 4 / 90 // भम्- नक्षत्रम्, तस्याऽणि परेऽनयो-'यो लुक्' स्यात् / तैषी रात्रिः, पौषमहः / भाणीति किम् ? तैष्यश्चरुः // 10 // .. आपत्यस्य क्य-च्योः / 2 / 4 / 91 // व्यञ्जनात् परस्याऽऽपत्यस्य ‘यः क्ये च्चौ च परे लुक्' स्यात् / गार्गीयति, गार्गायते, गार्गीभूतः / आपत्यस्येति किम् ? साङ्काश्यीयति / व्यञ्जनादित्येव - कारिकेयीयति // 91 // .. तद्धितयस्वरेऽनाऽऽति / 2 / 4 / 92 // व्यञ्जनात् परस्याऽऽपत्यस्य 'यो यादावादादिवर्जस्वरादौ च तद्धिते लुक्' स्यात् / गार्यः, गार्गकम् / आपत्यस्येत्येव- काम्पील्यकः / तद्धितेति किम् ?