________________ 106 . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कुलमाऽऽख्यायते यकाभिस्तासामनार्षवृद्धाणिजन्तानामन्तस्य स्त्रियां 'ष्यः' स्यात् / पौणिक्या, गौप्त्या / अनार्ष इत्येव- गौतमी / / 79 / / क्रौड्यादीनाम् / 2 / 4 / 80 // क्रौडि इत्यादीनामणिअन्तानामन्तस्य स्त्रियां 'प्यः' स्यात् / क्रौड्या, लाड्या // 8 // __ भोज-सूतयोः क्षत्रिया-युवत्योः / 2 / 4 / 81 // अनयोरन्तस्य यथासंख्यं क्षत्रिया-युवत्योः स्त्रियां 'ष्यः' स्यात् / भोज्या क्षत्रिया, सूत्या युवतिः / अन्या तु भोजा, सूता ||81|| दैवयज्ञि-शौचिवृक्षि-सात्यमुनि-काण्ठेविद्वेर्वा / 2 / 4 / 82 // एषाम् इञन्तानां स्त्रियामन्तस्य 'ष्यो वा' स्यात् / दैवयझ्या, दैवयज्ञी; शौचिवृक्ष्या, शौचिवृक्षी; सात्यमुग्र्या, सात्यमुग्री; - काण्ठेविझ्या, काण्ठेविद्धी / / 82 // . घ्या पुत्र-पत्योः केवलयोरीच तत्पुरुषे / 2 / 4 / 83 // मुख्य आबन्तः ष्यः पुत्र-पत्योः केवलयोः परयोस्तत्पुरुषे समासे 'ईच्' स्यात् / कारीषगन्धीपुत्रः, कारीषगन्धीपतिः / ष्येति किम् ? इभ्यापुत्रः / केवलयोरिति किम् ? कारीषगन्ध्यापुत्रकुलम् / / 83 // बन्धौ बहुव्रीहौ / 2 / 4 / 84 // मुख्य आबन्तः ष्यो बन्धौ केवले परे ‘बहुव्रीहावीच्' स्यात् / कारीषगन्धीबन्धुः / केवल इत्येव-कारीषगन्ध्याबन्धुकुलम् / मुख्य इत्येव अतिकारीषगन्ध्याबन्धुः // 84 // मात-मातृ-गातृके वा / 2 / 4 / 85 // मुख्य आबन्तः ष्यो मातादिषु केवलेषु परेषु 'बहुव्रीहावीज् वा' स्यात् /