________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् 105 रज्ज्वादिभ्यश्च' / कुरूः, ब्रह्मबन्धूः; अलाबूः, कर्कन्धः / उत इति किम् ? वधूः / अप्राणिनश्चेति किम् ? आखूः / जातेरित्येव- पटुः स्त्री / युरज्ज्चादिवर्जनं किम् ? अध्वर्युः स्त्री, रज्जुः, हनुः // 73 // बाह्वन्त-कद्रु-कमण्डलोम्नि / 2 / 474 // बाह्वन्तात् कद्रु-कमण्डलुभ्यां च संज्ञायां स्त्रियाम् 'ऊ' स्यात् / मद्रबाहूः, कद्रूः, कमण्डलूः / नाम्नीति किम् ? वृत्तबाहुः // 74 // उपमान-सहित-संहित-सह-सफ-वाम-लक्ष्मणायूरोः / 2 / 4 / 75 // एतत्पूर्वपदादूरोः स्त्रियाम् 'ऊ' स्यात् / करभोरूः, सहितोसः, संहितोरुः, सहोकः, सफोरः, वामोरूः, लक्ष्मणोरूः / उपमानाद्यादेरिति किम् ? पीनोरूः // 75 // नारी-सखी-पशू-श्वश्रू / 2 / 476 // एते 'ज्यन्ता ऊङन्ताश्च निपात्यन्ते' // 76 / / यूनस्तिः / 2 / 477 // यूनः स्त्रियां 'तिः' स्यात् / युवतिः / मुख्यादित्येव- नियूँनी / / 77|| अनार्षे वृद्धेऽणिजो बहुस्वर-गुरूपान्त्यस्या-ऽन्तस्य ष्यः 21478 // अनार्षे वृद्धे विहितौ यावणिजौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नो-ऽन्तस्य 'ष्यः' स्यात् / कारीषगन्ध्या, बालाक्या / अनार्ष इति किम् ? वासिष्ठी / वृद्ध इति किम् ? आहिच्छत्री / अणिञ इति किम् ? आर्त्तभागी / बहुस्वरेति किम् ? दाक्षी / गुरूपान्त्यस्येति किम् ? औपगवी / अणिअन्तस्य संतो बहुस्वरादिविशेषणं किम् ? दौवार्या, औडुलोम्या // 78 // . कुलाख्यानाम् / 2 / 4 / 79 //