________________ . श्रीसिद्धहेमचन्द्रशब्दानुशासनम् - स्वरादुतो गुणादखरोः / 2 / 4 // 35 // स्वरात् परो य उत् तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां ‘ङीर्वा' स्यात् / पट्वी, पटुः / विभ्वी, विभुः / स्वरादिति किम् ? पाण्डुर्भूमिः / गुणादिति किम् ? आखुः स्त्री / अखरोरिति ? खरुरियम् // 35 // श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च / 2 / 4 // 36 // एभ्यो वर्णवाचिभ्यः स्त्रियां ‘ङीर्वा स्यात् तद्योगे तो न च' / श्येनी, श्येता; एनी, एता; हरिणी, हरिता; भरणी, भरता; रोहिणी, रोहिता / वर्णादिति किम् ? श्येता, एता // 36 // क्नः पलिता-ऽसितात् / 2 / 4 / 37 // त इति चेति चा-ऽनुवर्तते, आभ्यां स्त्रियां ‘ङीर्वा स्यात्, तद्योगे तः क्नः' / पलिक्नी, पलिता; असिक्नी, असिता // 37 // [2 / 4 / 38 // असह-नञ्-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जाद् अदन्तात् स्त्रियां 'डीर्वा' स्यात् / पीनस्तनी, पीनस्तना; अतिकेशी, अतिकेशा माला / सहादिवर्जनं किम् ? सहकेशा, अकेशा, विद्यमानकेशा / क्रोडादिवर्जनं किम् ? कल्याणक्रोडा, पीनगुदा, दीर्घवाला / स्वाङ्गादिति किम् ? बहुशोफा, बहुज्ञाना, बहुयवा // 38 // (2 / 4 / 39 // नासिकोदरोष्ठ-जया-दन्त-कर्ण-शृङ्गा-ऽङ्ग-गात्र-कण्ठात् सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ‘ङीर्वा' स्यात् / तुङ्गनासिकी, तुङ्गनासिका; कृशोदरी, कृशोदरा; बिम्बोष्टी, बिम्बोष्ठा; दीर्घजङ्घी, दीर्घजङ्घा; समदन्ती, समदन्ता; चारुकर्णी, चारुकर्णा; तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा; मृद्वङ्गी, मृद्वङ्गाः सुगात्री, सुगात्रा; सुकण्ठी, सुकण्टा / पूर्वेण सिद्धे नियमार्थमिदन, तेन बहुस्वरसंयोगोपान्त्येभ्योऽन्येभ्यो भा भूत-सुललाटा, सुपावा ||31||